________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [१] .......... मूलं [१] / गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत सूत्रांक [१] गाथा
11-11
पुरुषप्रधानत्वात् धर्मस्य इति पञ्चमः ५. ॥'वय'ति व्रतानि-महावतानि तानि च द्वाविंशतिजिनसाधूनां 8 चत्वारि, यतस्ते एवं जानन्ति यत् अपरिगृहीतायाः स्त्रियः भोगासंभवात् स्त्री अपि परिग्रह एवेति परिग्रहे प्रत्याख्याते स्त्री प्रत्याख्यातैव, प्रथमचरमजिनसाधूनां तु तथाज्ञानाभावात् पश्च व्रतानि इति षष्ठः६॥ 'जित्ति ज्येष्ठो-रत्नाधिकः स एव कल्पो वृद्धलघुत्वव्यवहार इत्यर्थः, तत्र आद्यान्तिमजिनयतीनां उपस्थापनातःप्रारभ्य दीक्षापर्यायगणना मध्यमजिनयतीनांच निरतिचारचारित्रत्वाहीक्षादिनादेव, अथ पितापुत्रमातादुहितराजामात्यअष्ठिवणिकपुत्रादीनां साई गृहीतदीक्षाणां उपस्थापने को विधिः?, उच्यते, यदि पित्रादयः पुत्रादयश्च समकमेव पहजीवनिकार्याध्ययनयोगोद्वहनादिभिर्योग्यता प्राप्तास्तदा अनुक्रमेणैवोपस्थापना, अथ स्तोकं अन्तरं तदा किय-18 विलम्येनापि पित्रादीनामेव प्रथममुपस्थापना, अन्यथा पुत्रादीनां बृहत्त्वेन पित्रादीनां अप्रीतिः स्यात् , अथ पुत्रादीनां सप्रज्ञस्वेन अन्येषां निष्प्रज्ञत्वेन महदन्तरं तदास पित्रादिरेवं प्रतियोध्या-भोमहाभाग! सप्रज्ञोऽपि तव पुत्रः अन्येभ्यो बहभ्यो लघुभविष्यति तव पुत्रे च ज्येष्ठे तवैव गौरवं, एवं प्रज्ञापितः स यदि अनुमन्यते तदा पुत्रादिः प्रथमं उपस्थापनीया, नान्यथा, इति सप्तमः ७॥ 'पडिक्कमणे'ति अतिचारो भवतु मा वा परं श्रीऋषभ-1 वीरसाधूनां उभयकालं अवश्य प्रतिक्रमणं कर्त्तव्यमेव, शेषजिनमुनीनां च दोषे सति प्रतिक्रमणं नान्यथा, तत्रापि मध्यमजिनयतीनां कारणसद्भावेऽपि देवसिकरात्रिके एव प्रायः प्रतिक्रमणे, न तु पाक्षिकचातुर्मासिक
दीप
अनुक्रम []
For FFU Clu
-30