SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [११८] गाथा ॥१,२|| दीप अनुक्रम [१२० १२२] [भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः) व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः पप. सुबो व्या० ६ ॥१००॥ यामास, भगवतोऽग्रे गायति नृत्यति च तदाकर्ण्य च लोकांश्चिन्तितवन्तो- यदनेन स देवार्थी हतस्ततो गायति नृत्यति च तत्र च खामी देशोनान रात्रेञ्चतुरोऽपि यामान् अत्यन्तं वेदनां सोढवान् इति प्रभाते क्षणं निद्रां लेभे तत्र च प्रभुरूर्ध्वस्थ एवं दश खमान् दृष्ट्वा जागरितः, प्रभाते लोको मिलितः, उत्पलेन्द्रशर्माणी अपि अधीष्टाङ्गनिमित्तौ तत्रागतो, ते भगवन्तं दिव्यगन्धचूर्णपुष्पपूजितं निरीक्ष्य प्रमुदिताः प्रणमन्ति, तत उत्पलोऽवोचत्-हे भगवन् ! ये त्वया निशाशेषे दश खप्मा दृष्टास्तेषां फलं स्वया तुज्ञायत एव तदपि मया | कथ्यते यस्वया तालपिशाचो हतस्तेन त्वं अचिरेण मोहनीयं कर्म हनिष्यसि १ यच्च सेव्यमानः सितः पक्षी दृष्टस्तेन त्वं शुक्लध्यानं ध्यास्यसि २ यश्च चित्र कोकिलः सेवमानो दृष्टस्ततस्त्वं द्वादशाङ्गीं प्रथयिष्यसि ३ यच गोवर्गः सेवमानो दृष्टस्तेन साधुसाध्वीश्रावकश्राविकारूपञ्चतुर्विधः संघस्त्वां सेविष्यतेभ्यश्च त्वया स्वप्ने समुद्र|स्तीर्णस्ततस्त्वं संसारं तरिष्यसि ५ यश्चोद्गच्छन् सूर्यो दृष्टस्तेन तव अचिरात् केवलज्ञानं उत्पत्स्यते ६ यच त्वया अन्त्रैर्मानुषोत्तरो वेष्टितस्तेन त्रिभुवने तव कीर्त्तिर्भविष्यति ७ यच त्वं मन्दरचूलां आरूढस्तेन त्वं सिंहासने उपविश्य देवमनुजपर्षदि धर्म प्ररूपयिष्यसि ८ यञ्च त्वया विबुधलङ्कृतं पद्मसरो दृष्टं तेन चतुर्नि कायजा देवास्त्वां सेविष्यन्ति ९ यत्त्वया मालायुग्मं दृष्टं तदर्थं तु नाहं जानामि, तदा भगवता प्रोक्तं - हे उत्पल ! यन्मया दामयुग्मं दृष्टं तेन अहं द्विविधं धर्म कथयिष्यामि साधुधर्मं श्रावकधर्मं च तत उत्पलो वन्दित्वा गतः, तत्र खामी अष्टभिः अर्द्धमासक्षपणैस्तां प्रथमां चतुर्मासी (१) मतिक्रम्य ततः स्वामी मोरा ... भगवंत महावीरेण दृष्ट १० स्वप्नानि एवं तेषां फलानि For Private & Personal Use Only 225 स्वमदशकं प्रथमा चतु मोसी १५ २० २५ ॥१००॥
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy