SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [३५-३६] गाथा ||68..|| दीप अनुक्र [११९ १२०] नन्दीहारिभद्रीय वृत्तौ ॥ ६८ ॥ [भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं ३५-३६] / गाथा ||७४...|| गच्छन्त्येव, 'असंखेज्ज' इत्यादि, प्रतिसमयप्रवेशेनादित आरम्य असंख्येयसमयैः प्रविष्टर संख्येय समयप्रविष्टाः, न पुनर्विंशत्या - होभिः पथिकगृहप्रवेशवदपान्तरालागमनसमयापेक्षयाऽसंख्येयसमयप्रविष्टा इति, पुद्गलाः शब्दद्रव्यविशेषा ग्रहणमागच्छन्ति, अर्थावग्रहज्ञानहेतवो भवन्तीति भावः इह च चरमसमयप्रविष्टा एवं ग्रहणमागच्छन्ति, तदन्ये त्विन्द्रियक्षयोपशमकारिण इत्योधतो ग्रहणमुक्तमिति, असंख्येयमानं चात्र जघन्यमावलिकासंख्येयभागसमयतुल्यं, उत्कृष्टं तु संख्येयावलिकासमयतुल्यं तच्च प्राणापानपृथक्त्वकालसमयमिति, उक्तंच "वंजणवग्गहकालो आवलियाऽसंखभागमेत्तो उ । थोबो उकोसो पुण आणापाणूपुहुर्त्तति ॥ १ ॥ " 'से तं' इत्यादि निगमनम् ॥ सेयं प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणेति वाक्यशेषः ॥ 'से किं तमित्यादि, अथ कोऽयं मल्लकदृष्टान्तो?, २ नाम तद्यथा नाम कश्चित् पुरुष आपाकशिरसः, आपाकः प्रतीतः तच्छिरसश्च मलकं-शरावं गृहीत्वा, इदं रूक्षं भवति इत्यतोऽस्य ग्रहणमिति, तत्र मल्लके एकं उदकबिन्दुं प्रक्षिपेत् स नष्टः, तत्रैव तद्भावपरिपतिमापत्र इत्यर्थः, शेष सुगमं यावत् जपणं तं मल्लकं रावेहित्ति आर्द्रतां नेष्यति, शेषं सुगमं यावत् एवमेवेत्यादि, अतिबहुत्वात् प्रतिसमयमनन्तैः पुद्गलैः- शब्दपुद्गलैः यदा तद् व्यंजनं पूरितं भवति तदा हुमिति करोति, तमर्थ गृह्णातीत्युक्तं भवति, अत्र व्यंजनशब्देन त्रयमभिगृह्यते-द्रव्यमिन्द्रियं सम्बन्धो वा यदा द्रव्यं व्यंजनमधिक्रियते तदा पूरितमिति प्रभूतीकृतं, स्वप्रमाणमानीतं, स्वविषयव्यक्ती समर्थीकृतमित्यर्थः, यदा व्यंजनमिन्द्रियं तदा पूरितमित्याभृतं भृतं व्याप्तमित्यर्थः, यदा तु द्वयोरपि सम्बन्धोऽधिक्रियते तदा पूरितमित्यंगांगीभावमानीतमनुषक्तमित्यर्थः एवं यदा पूरितं भवति तदानीं तमर्थं गृह्णाति, किंविशिष्टं ?-भामजात्यादिकल्पनारहितं तथा चाह-णो चैव गं जाणद के बेस सद्दादित्तिः न पुनरेवं जानाति क एष शब्दादिरर्थ इति, एकसामयिकत्वादर्था महक दृष्टान्तः ~81~ ॥ ६८ ॥ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy