SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [२४] गाथा ॥६०॥ दीप अनुक्रम [93] नन्दीहारिभद्रीय वृत्तौ ॥ ५८ ॥ [भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्तिः) मूलं [२४] / गाथा ||६०|| भेदः खल्वसंख्येयप्रदेशात्मको मूर्ती धर्मास्तिकाय इति, तथा यः स्थितिपरिणामपरिणतयोजीवपुद्गलयोरेव स्थित्युपष्टम्भहेतुर्विवक्षया ४ मतिश्रुतयो क्षितिरिव झपस्य स खल्वसंख्येयप्रदेशात्मको मूर्त्त एवाधर्मास्तिकाय इति एवमामिनिबोधिक श्रुतयोरपि लक्षणभेदाद्भेदः, तथा चाह-'अभिणिवुज्झइ' इत्यादि, अभिनिबुध्यत इत्याभिनिवोधिकं आत्मनः परिणामविशेषः, एवं शृणोतीति श्रुतं आत्मन एव परिणामविशेष इति एतदुक्तं भवति- यदिन्द्रियमनोनिमित्तमात्मनो विज्ञानं श्रुतग्रन्थानुसारेणोपजायते तत् श्रुतं, शेषमिन्द्रियमनोनि मित्तमाभिनियोधिकमिति । इत्थं लक्षणभेदाद्भेदमभिधायाधुना प्रकारान्तरेण भेदमभिधित्सुराह 'मतिपुरुषं सृतं, पण मती सुयपुव्विया' | पूरणयो' रित्येतस्य पूर्यते प्राप्यते प्रात्यते वाऽनेन कार्यमिति पूर्व-कारणं, मतिः पूर्वमस्येति मतिपूर्व, श्रुतश्रुतज्ञानं, महान् मतिश्रुतयोर्युगपदेव सम्पत्त्यावाप्तौ भाव उक्तः, अज्ञानयोरपि विगमः, तत् कथं मतिपूर्व श्रुतमिति ?, किंच-मतिपूर्वकत्वेऽभ्युपगम्यमाने सति मतिज्ञानभावेऽपि तत्काले श्रुतमज्ञानं प्राप्नोति, अनार्ष चेदमिति, अत्रोच्यते, न लब्धि प्रति मतिश्रुते समकाले भवतः, न तूपयोगोऽनयोः समकाले इति मतिपूर्व श्रुतं इह पुनः को भावार्थ: : श्रुतोपयोगो मतिप्रभवः, यतो नासंचिन्त्य मत्या श्रुतग्रन्थानुसारि विज्ञानमुत्पद्यते । आह एवं मतिरपि श्रुतपूर्वा भवत्येव, तथाहि शब्दं श्रुत्वा या मतिरुत्पद्यते सा श्रुतपूर्वेति प्रतीतं, अतो न विशेषो यथा मतिपूर्व श्रुतं तथा मतिरपि श्रुतपूर्वेति, अत्रोच्यते, ननु सा द्रव्यश्रुतोद्भवा वर्त्तते, इह तु न मतिः श्रुतपूर्वेति, का भावना, भावश्रुतात् सकाशात् मतिर्नास्तीति यद्वा कार्यतया निषिध्यते, न पुनः क्रमेण, क्रमेण तु श्रुतोपयोगात् च्युतस्य मत्यवस्थानमिष्यत एवेत्यलं प्रसङ्गेन, न चैतत् स्वमनीषिकयोच्यते, यतोऽभ्यधायि भाष्यकृता - "णाणाणऽण्णाणाणि य समकालाई यतो ॥ ५८ ॥ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः ~71~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy