________________
आगम
(४४)
प्रत
सूत्रांक
[१५-१७]
गाथा
||५५||
दीप अनुक्रम
[७६-७८]
नन्दीहारिभद्रीय वृत्तौ
1180 11
[भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [१५-१७] / गाथा ||५५...||
पाति आकेवलप्राप्तेरवधिज्ञानमिति, अयमत्र भावार्थः एतावत्क्षयोपशमसम्प्राप्तात्मा विनिहतप्रधान प्रतिपक्षयोद्धसंघात इव नरपतिर्न पुनः कर्मशत्रुणा परिभूयते, किं तर्हि ? समासादितैतावदालोक एवाप्रतिनिवृत्तः शेषमपि कर्मशत्रु विनिर्जित्याप्नोति केवलराज्यश्रियमिति, लोकालोकविभागस्त्वयं-जीवादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ १ ॥ 'सेत' मित्यादि, तदेतदप्रतिपात्यवधिज्ञानमिति व्याख्याताः षड् भेदाः, साम्प्रतं द्रव्यादिविषयापेक्षया भेदतोऽबधिज्ञानमेव निरूपयन्नाह
'तं समासओ' इत्यादि ।। (१६-९७) ।। तदवधिज्ञानं समासतः संक्षेपेण चतुर्विधं प्रज्ञप्तं, तद्यथा द्रव्यतः क्षेत्रतः कालतो भावत इति, तत्र द्रव्यतः णमिति वाक्यालंकारे अवधिज्ञानी जघन्येनानन्तानि द्रव्याणि तैजसभाषाद्रव्याणामपान्तरालवर्तीनि, यत उक्तम्- 'तेयाभासादब्याण अंतरा एत्थ लभइ पडवओ' ति, उत्कृष्टतः सर्वरूपिद्रव्याणि बादरसूक्ष्म भेदभिन्नानि जानाति विशेषाकारेण, पश्यति सामान्याकारण, आह-आदौ दर्शनं ततो ज्ञानमिति क्रमः तत् किमर्थमेनं परित्यज्य प्रथमं जानातीत्युक्तम् १, अत्रोच्यते, इहावधिज्ञानाधिकारात् प्राधान्यख्यापनार्थमादौ जानातीत्युक्तं, अवधिदर्शनस्य त्ववधिविभंगसाधारणत्वात् पश्चात् पश्यतीति, अथवा सर्वा एव लब्धयस्सांकारोपयोगोपयुक्तस्योत्पद्यन्त इति, अवधेष लब्धित्वादित्यस्यार्थस्य ख्यापनार्थमादौ जानातीत्याह ततः क्रमेणोपयोगप्रवृत्तेः पश्यतीति, क्षेत्रतः अवधिज्ञानी जघन्येनांगुलस्यासंख्येयभागं, उत्कृष्टतोऽसंख्येयानि अलोके केवलाकाशास्तिकाये शक्तिमपेक्ष्य लोकप्रमाणानि खण्डानि जानाति पश्यति, कालतोऽवधिज्ञानी जघन्येनावलिकासंख्येयभागं उत्क|ष्टतोऽसंख्येया अवसर्पिण्युत्सर्पिणीरतीतं चानागतं च कालं जानाति पश्यतीति, भावार्थः प्राक् प्रतिपादित एव, भावतोऽवधिज्ञानी
अवधिविषया:
द्रव्यादयः
~53~
।। ४० ।।
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः ... अवधिज्ञानस्य द्रव्य आदि चत्वारः भेदानां वर्णनं क्रियते