________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः)
.... मूलं [१२] / गाथा ||४८||
प्रत
नन्दीहारिभद्रीय
अब
सूत्रांक
उक्त
[१२] गाथा
॥४८||
स्ताभ्यवसायस्येत्यर्थः, सर्वतः समन्तादवधिः परिवर्द्धत इति योगः, अनेनाविरतसम्यग्दृष्टेरपि वर्द्धमानक उक्तो वेदितव्यः, वत्तेमानचारित्रस्येत्पनेन तु देशविरतसर्वविरतयोरिति, विशुध्यमानस्य-तदाबरणकर्ममलविगमादुत्तरोत्तरं शुद्धिमनुभवतः अविरतसम्यग्दृष्टेरेव, अनेनावधेः शुद्धिजन्यत्वमाह, विशुध्यमानचारित्रस्य देशसर्वविरतस्य सर्वतः समन्तादवधिः परिवर्द्धत इति, तत्र । परिवद्धेत इत्युक्तम् , अथ सर्वजघन्योऽयं कियत्प्रमाणो भवतीति प्रश्नसम्भये क्षेत्रतः प्रतिपादयबाह
जावइयागाहा।।(४४८-९०)।यावती यावत्प्रमाणा, आहारयतीत्याहारकः त्रिसमयं आहारकः त्रिसमयाहारकः त्रीन् वा समयानिति, तस्य, सूक्ष्मनामकर्मोदयात् लक्ष्मस्तस्य, पनकश्चासौ जीवश्च पनकजीवः, वनस्पतिविशेषः इत्यर्थः, तस्य, अवगाहन्ते यस्यां प्राणिनः सा अवगाहना, तनुरित्यर्थः, जघन्या-सर्वस्तोका, अवधेः क्षेत्र अवधिक्षेत्र, जघन्य- सर्वस्तोक, तुशब्द एक्काकारार्थः, स चावधारणे, तस्य चैव प्रयोगः-अबधिक्षेत्र जघन्यमेतावदेवेति ।। अत्र च सम्प्रदायसमधिगम्योऽयमर्थ:
योजनसहस्रमानो मत्स्यो मृत्वा स्वकायदेश यः । उत्पद्यत हि सूक्ष्मः पनकत्वेनेह स प्रायः॥१॥ संहृत्य चाद्यसमये स बायाम करोति च प्रतरम् । संख्यातीताख्यांगुलविभागबाहल्यमानं तु ॥ २॥ स्वतनूपृथुत्वमात्र दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥ ३ ॥ संख्यातीताख्यांगुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुप्रथुत्वदध्या तृतीयसमय तु संहृत्य ॥४॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥५॥ तावज्जघन्यमधरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसम्प्रदायात् समवसेयम् ॥ ६॥
SARKARI
दीप अनुक्रम [६४-६५]]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~47~