________________
आगम
(४५)
प्रत
सूत्रांक
[१४६
१४८]
गाथा
||११६
११८||
दीप
अनुक्रम
[२९९
३१०]
"अनुयोगद्वार"- चूलिकासूत्र -२ ( मूलं वृत्तिः )
मूलं [१४६-१४८] / गाथा [ ११६-११८ ] .....
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५] चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
श्रीअनु० हारि वृत्तौ
॥११७॥
वक्तव्यता पुनर्यत्र स्वसमयः परसमयश्चाऽऽख्यावेते, यथा 'आगारमावसेतो वा अरण्णा वापि पञ्वया । इमं दरिसगमावण्णा, सब्वदुक्खा विमुचती ॥ १ ॥ त्यादि, शेषसूत्रालापक योजना तु स्वधिया कार्येति, स्वयं स्वसमयपरसमयवक्तव्यता ॥
"
इदानीं नयैर्विचारः क्रियते को नयः ? कां वक्तव्यतामिच्छति ?, तत्र नैगमव्यवहारौ त्रिविधां वक्तव्यतामिच्छतः तद्यथा-स्वसमयवकव्यतामित्यादि, तत्र सामान्यरूपो नैगमः, प्रतिभेदं सामान्यरूपमेवेच्छति स होवं मन्यते - भिण्णाभिधेया अपि स्वसमयवक्तव्यताऽविशेषात्स्वसमयसामान्यमतिरिक्त (च्य न) वर्त्तते, व्यतिरेके स्वसमयवक्तव्यताऽविशेषत्वानुपपत्तेः, विशेषरूपः स नैगमो, व्यवहारस्तु प्रतिभेदं भिन्नरूपमेवेच्छति, पदार्थानां विचित्रत्वादिति, यथाऽस्तिकायवक्तव्यता मूलगुणवश्यतेत्येवमादि, ऋजुसूत्रस्तु द्विविधां वक्तव्यतामिच्छतीत्यादि सयुक्तिकं सूत्रसिद्धमेव, त्रयः शब्दनयाः शब्दसमभिरूडएवंभूताः एकां स्वसमयवक्तव्यतामिच्छन्ति, शुद्ध नयत्वात् नास्ति परसमयवक्तव्यतेति चमन्यंते, कस्मादेतदेवं १, यस्मात्परसमयोऽनर्थ इत्यादि, तत्र 'निमित्तकारणदेषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति वचनादू हेतवस्त एव इति परसनयानर्थत्वा दद्देतुत्वादित्येवमादयः, तत्र कथमनर्थ इति, नास्त्येवात्मेत्यनर्थप्ररूपकत्वादस्य, आत्माभावे प्रतिषेधानुपपत्तेः उत्थ 'जो चिंतेइ सरीरे णत्थि अहं स एव होइ जावोति । गहु जविभि असंते संसयउप्पायओ अण्णो || १ ||" अहेतु :- हेत्वाभासेन प्रवृत्तेः, यथा नास्त्येवात्मा अत्यन्तानुपलब्धेः हेत्वाभासत्वं चास्व ज्ञानादितद्गुणोपलब्धेः उक्तं च "ज्ञानानुभवतो दृष्टस्तद्गुणात्मा कथं च न १ । गुणदर्शनरूपं च घटादिष्वपि दर्शनम् ||१||" असद्भाव:- असद्भावाभिधानात् असद्भावाभिधानं चात्मप्रतिषेधेनोक्तत्वात् स्यादेतत्सर्वगतत्वादिधर्म्मणोऽसवं रूपादिस्कन्धसमुदायात्मकस्य तु सद्भाव एवेति, न, तस्य भ्रान्तिरूपत्वात् भ्रान्तिमात्रत्वाभ्युपगमन "फेनपिण्डोप रूपं, वेदना बुदोपमा । मरीचिसदृशी संज्ञा, संस्काराः कदलीनिभाः || १ || मायोपमं च विज्ञानमुक्तमादित्यबन्धुने" त्यादि, अक्रियक्षाणकै
~ 254 ~
वक्तव्यतायां नियविचारः
॥११७॥