________________
आगम
(४५)
प्रत
सूत्रांक
[१४५]
गाथा
||११५||
दीप
अनुक्रम [२९८]
"अनुयोगद्वार"- चूलिकासूत्र - २ ( मूलं + वृत्तिः)
मूलं [१४५] / गाथा [११५]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
श्रीअनु० हारिपृचौ
॥१०७॥
***
"
नैगमो भणति पण्णां प्रदेशः, तद्यथा-धर्मप्रदेशः अत्र धर्मशब्देन धर्मास्तिकायः परिगृह्यते तस्य प्रदेशो धर्मप्रदेश: एवमधर्मादिष्वपि योज्यं, याबद् देशप्रदेश इत्यत्र देशो व्यादिभागस्तस्य प्रदेश इति सर्वत्र पछी तत्पुरुषसमासः, सचापि सामान्यविवच्या एक विशेषविषक्षयाऽनेक इति, एवं वदन्तं नैगमं संप्रहो भणति यद् भणासि षण्णां प्रदेश: तन्न भवति, करमादू?, यस्माद्यो देशप्रदेश: स तस्यैव द्रव्यस्य तद्व्यतिरिक्कत्वादेशस्य, यथा को दृष्टान्त इत्याह-दासेन मे खरः क्रीतः दासोऽपि मे खरोऽपि मे तत्संबन्धित्वात् खरस्य, एतावता साधर्म्यं तन्मा भण षण्णां प्रदेशः, पस्य वस्तुतोऽविद्यमानत्वात् परिकल्पनेच प्रभूततरापत्तेः, भण पंचानां प्रदेश इत्यादि, अविशुद्धञ्चायं संग्रह:, अपरसामान्याभ्युपगमात्, एवं वदन्तं संग्रहं व्यवहारो भगति यद्भणसि पञ्चानां प्रदेशस्तन्न भवति न युज्यते, कस्मादू?, यदि पञ्चानां गोष्टिकानां किञ्चिद् द्रव्यं सामान्यात्मकं भवति तद्यथा दिरण्यं वेत्यादि एवं प्रदेशोऽपि स्यात् ततो युज्येत वक्तुं पञ्चानां प्रदेशः न चैतदेवं तस्मात् भण पञ्चविधः, पञ्चप्रकार : प्रदेशस्तद्यथा धर्मप्रदेश इत्यादि, इथं लोके व्यवहारदर्शनात् एवं वदन्तं व्यवहारमृजुसूत्रों भणति यणसि पञ्चविधः प्रदेशस्तन भवति, कस्माद् १, यस्माद् यदि ते पञ्चविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेशः शब्दभुतिप्रामाण्यात्तथाप्रतीतेः पञ्चविधः प्राप्तः एवं च पंचविंशतिविधः प्रदेश: इति, तत् मा भण पञ्चविधः प्रदेशः, भण भाज्यः प्रदेशः, स्वाद् धर्मस्येत्यादि, अपेक्षावशेन भाग्यः यो यस्यात्मयः स एवास्ति, परकीयस्य परधनवत् निष्प्रयोजनत्वात् खरविषाणवदप्रदेश एवेत्यतः स्वाद्धर्मस्य प्रदेश इति एवं ऋजुसूत्रं सम्पतं शब्द भणतिभाज्य: प्रदेशस्तन्न भवति, कस्माद् ?, यस्मादेवं ते धर्मप्रदेशोऽपि स्याद्धर्मप्रदेश इति विकल्पस्यानिवारितत्वात् स्यादधप्रदेश इत्याद्यापत्तेः अनवधारणादनवस्था भविष्यति, सन्मा मण भान्यः प्रदेशो भण-धर्मप्रदेशः प्रदेशो धर्म इत्यादि, अयमत्र भावार्थ:- धर्मप्रदेश इति धर्मात्मकः प्रदेशः, प्रदेश नियमात् धर्मास्तिका यस्तदव्यतिरिक्तत्वात्तस्य, एवमधर्माकाशयोरपि भावनीयं एवं जीवात्मकः प्रदेश: प्रदेशो नोजीव इति
राणी
~244~
नये प्रदेश
दृष्टान्तः
1120011