________________
आगम
(४५)
प्रत
सूत्रांक
[१४३
१४४]
गाथा
||११३
११५||
दीप अनुक्रम [२९३
२९७]
"अनुयोगद्वार"- चूलिकासूत्र -२ ( मूलं वृत्तिः )
मूलं [१४३-१४४] / गाथा [ ११३ ११५ ] ..... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५] चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
श्रीअनु० हारि वृत्ती
॥१०१॥
शब्दविशेषेणानुभिन्वत इत्यध्याहारः, तत्कार्यत्वासितस्य, एवं शेपोदाहरणयोजनापि कार्येति । तथा कारणेन तंतवः पटकारणं (न) पट तंतुकारणमित्यनेनैतत् ज्ञापयति-कारणमेव कार्यानुमापकं नाकारणं, पटः तन्तूनां तत्कार्यत्वात्तस्य, आह- निपुणवियोजने तत एव तंतुभावास्पटोऽपि तन्तुकारणामिति, ननु तत्त्वनोपयोगित्वाभावात्तदभाव एव तन्तुभावादिति, न, नैव पटोत्पत्तौ सर्वथैव तन्त्वभावस्तेषामेव तथापरिण| तिभावेनोपयोगात्, न चोथं पटपरिणाम एव तवः, तत्वेनोपयोगित्वाभावाद्भावे च पटभावेऽपि तंतुवत् पुनस्तंतुभावेऽपि पट उपलभ्येत न चोपलभ्यत इत्यतस्तंतवः पटकारणे, न पट: संतुकारणामिति स्थितं इदं च मेघोन्नतिः वृष्टिकारणं चन्द्रोदयः समुद्रः कुमुदविकासस्य चेत्याद्युपलक्षणं वेदितव्यं गुणेन सुवर्ण निकषेण, तगतरूपातिशयेनान्ये, सद्गुणत्वात्तस्य, एवं शेषोदाहरणयोजनाऽपि कार्या, अवयवेन सिंह दंष्ट्या तदवयवत्वात्तस्य, आह-तदुपलब्धौ तस्यापि प्रत्यक्षत एवोपलब्धेः कथमनुमानविषयता १, उच्यते, व्यवधाने सत्यन्यत
न दोषः एवं शेषोदाहरणयोजना कार्येति, नवरं मानुष्यादिकृतावयवोऽभ्यूल इत्येके, अन्ये तु द्विपदमित्येवमादिकमेवावयवममिद्धवि, मनुष्योऽयं तद्विनाभूत पदद्वयोपलम्भ्यन्यथानुपत्तेरिति, गोम्ही कर्णसृगाली, तथाऽऽभवेणा घूमेन, जत्राश्रयतीत्याश्रयो धूमो यत्र गृह्यते, अयं चाग्निकार्यभूतोऽपि तदाश्रितत्वेन लोकरूडेमेंदेनोक्त इवि, शेषोदाहरणयोजना सुगमा, तदेतच्छेषवदिति । 'से किं तं दिट्ठसाधम्म' मित्यादि, दृष्टसा धर्म्यवत् द्विविधं प्रज्ञतं, तद्यथा सामान्यदृष्टं च विशेषदृष्टं च तत्र सामान्यदृष्टुं यथा एकः पुरुषः तथा बहवः पुरुषा इत्यादि, सामान्यधर्मस्य तद्भावगमकत्वादिति विशेषदृष्टं तु पूर्वदृष्टपुरुषादि प्रत्यभिज्ञातं सामान्यधर्मादेव विशेषप्रतिपत्तेरित्यमुनाऽशेनानुमानता, ' तस्स समासतो ' इत्यादि, तस्येति सामान्येनानुमानस्य समासतः संक्षेपेण त्रिविधं ग्रहणं भवति, तद्यथा अतीतकालग्रहणमित्यादि, ग्रहण-परिच्छेदः, तत्राती तकालग्रहणं उद्भततृणादीनि दृष्ट्वाऽनेन दर्शनेन तदन्यथानुपपत्त्या साध्यते यथा सुदृष्टिरासीदिति, प्रत्युत्पन्नकालग्रहणं तु साधुं गोचरागतं भिक्षां
~ 238~
अनुमान प्रमाणं
॥१०१॥