SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [-] गाथा ||१० १२|| दीप अनुक्रम | [१०-१२] नन्दीहारिभूद्रीय वृता ॥ १० ॥ [भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्तिः) मूलं [] / गाथा || १०-१२ || स्विनःत एव ग्रहास्तेषां प्रभा-एकदुष्णयज्ञानलक्षणा तां नाशयति अनन्तनय संकुलप्रवचनसमुत्थज्ञानालोकेन अपनयतीति समासस्तस्य तपस्तेजोदीसलेश्यस्य तपस्तेज एवं दीप्ता- उज्ज्वला लेश्या दीधितयो यस्य, ज्ञानोद्योतस्पेति गतार्थ, जगति लोके भद्रं मङ्गलं भवतु कस्य दमस सूर्यस्य दमः- उपशमो भण्यते तत्प्रधानः सङ्घसूर्यः दमसङ्घसूर्यस्तस्येति गाथार्थः । । साम्प्रतं सङ्घस्यैव महत्तया समुद्ररूपकेण स्तवमाह भ० गाहा ॥ (०११-४५ ) । सङ्घसमुद्रस्य भद्रं भवत्विति क्रिया, किम्भूतस्य धृतिवेलापरिगतस्य धृतिः - आत्मपरिणामः सैव वेला-वेदिका जलान्तररमणलक्षणा मर्यादा वा तथा परिगतस्तस्य, स्वाध्याययोगमकरस्य कर्मविदारणमहाशक्तियुक्तत्वात् स्वाध्याय एव मकरो यस्मिंस्तस्य, अक्षोभ्यस्य परीषहोपसर्गसम्भवे निष्प्रकम्पस्य भगवतः समत्रैश्वर्यादियुक्तस्य, रुन्द्रस्येति विस्तीर्णस्येति गाथार्थः । इदानीं सङ्घस्यैव स्थिरतयाऽचलेन्द्ररूपकेण स्तुतिं कुर्वन्नाह सम्मर्द्दसण॰गाहा।।(*१२--४५) । सम्यग् अविपरीतं दर्शनं सम्यग्दर्शनं तदेव प्रथमं मोक्षाङ्गत्वात् सारत्वाद्वजं सम्यग्दर्श | नवज्रं तदेव हढं रूढं गाढं अवगाढं पीठं यस्य सङ्घ महामन्दर गिरेः स सम्यग्दर्शनवजदृढरूढगाढावगाढपीठस्तस्य, 'वंदे' चि द्वितीयार्थे षष्ठी प्राकृतशैल्या आर्पत्वाच्च तं वन्दे इत्यर्थः, तत् सम्यग्दर्शनवज्रपीठं, दृढमिति निष्प्रकम्पं शङ्कादिशल्यरहितत्वात्, रूढमिति वृद्धिमुपगतं, प्रतिसमयं विशुध्यमानत्वाद्, प्रशस्ताध्यवसायस्थानेषु वर्तनात्, गाढमिति निविडं तीव्रतत्त्वरूचिरूपत्वात्, सुष्ठु श्रद्धानरूपत्वादित्यर्थः, अवगाढमिति निमग्नं, जीवादिपदार्थेषु सम्यगवबोधरूपतया प्रविष्टमित्यर्थः, धर्मवरेत्यादि धारयतीति धर्मः संघस्य सूर्यसमुद्रतया स्तवः ~23~ 112 11 पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy