________________
आगम
(४५)
प्रत
सूत्रांक
[[६०-६४ ]
गाथा
दीप अनुक्रम [७१-७३]
"अनुयोगद्वार"- चूलिकासूत्र - २ ( मूलं वृत्तिः )
मूलं ६०-६४] / गाया [...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
श्रीअनु० हारि वृत्ती
॥ २७ ॥
4
द्वाराणि नगरप्रवेशमुखानि सामायिकपुरस्यार्थाधिगमोपायद्वाराणीत्यर्थः भवति, ' तद्यथे' त्युपन्यासार्थः ' उबकमे ' त्यादि, इह च नगरष्टष्टान्तमाचार्याः प्रतिपादयन्ति यथा धकृतद्वारमनगरमेव भवति कृतैकद्वारमपि दुरधिगमनं कार्यातिपत्तये च चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगमं कार्यानतिपत्तये च, एवं सामायिकपुरमप्यर्थाधिगमोपायद्वारशून्य मशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगमं, सप्रभेदचतुर्द्वारानुगतं तु सुखाधिगममित्यतः फलवान् द्वारोपन्यास इति, तत्रोपक्रमणमुपक्रम इति भावसाधनः शास्त्रस्य भ्यासदेश समीपकर णलक्षणः, उपक्रम्यते वाऽनेन गुरुवारयेोगेनेत्युपक्रम इति करणसाधनः उपक्रम्यतेऽस्मादिति वा विनीतविनेयविनयादित्युपक्रम इत्यपादानसाधनः तथा च शिष्यो गुरुं विनयेनाराध्यानुयोगं कारयन्नात्मनाऽपादानार्थे वर्त्तत इति । एवं निक्षेपणं निक्षेपः निक्षिप्यते वा अनेनास्मिन्नस्मादिति वा निक्षेपः न्यासः स्थापनेति पर्याय: एवमनुगमनमनुगमः अनुगम्यतेऽनेनास्मिन्नस्मादिति वाऽनुगमः, सूत्रस्यानुकूलः परिच्छेद इत्यर्थः, एवं नयनं नयः नीयतेऽनेनास्मिन्नस्मादिति वा नयः, अनन्वधर्मात्मकस्य वस्तुन एकांशपरिच्छेद इत्यर्थः । आह-एषामुपक्रमादिद्वाराणां किमित्येवं क्रम इति अत्रोच्यते, न धनुपक्रान्तं सदसमीपीभूतं निक्षिप्यते, न चानिक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न पार्थतोऽननुगतं नयैर्विचार्यत इत्यतोऽयमेव क्रम इति उक्त च संबध्धमुपक्रमतः समीपमानीय रचितनिक्षेपम् । अनुगम्यतेऽय शास्त्रं नयैरनेकप्रभेदेस्तु ॥ १ ॥ तत्रोपक्रमो द्विप्रकार:- शास्त्रीय इतरश्च तत्रेतराभिधित्सयाऽऽह--' से किं त' मित्यादि (६०-४५ ) वस्तुतो भावितार्थमेव यावत् 'से किं तं जाणगसरीरभवियसरीरखइरिते दव्योवकमे ' इत्यादि, त्रिविधः प्रज्ञतस्तद्यथा' सचिते त्यादि (६१-४६) द्रव्योपक्रम इति वर्त्तते, शेषाक्षरार्थः सचित्तद्रव्योपक्रमनिगमनावसानः सूत्रसिद्ध एव, भावार्थस्त्वयमिह 'सचित्ते' त्यादि, द्रव्योपक्रमः द्विपदचतुष्पदा पदभेदभिन्नः एकैको द्विविध:--परिकर्म्मणि वस्तुविनाशे च तत्र परिकर्म-द्रव्यस्य गुणविशेष परिणामकरणं तस्मिन् सति, तद्यथा-घृताद्युपयेोगेन नटादीनां वर्णा
... अत्र 'उपक्रम'स्य निक्षेपा: वर्णयते
~ 164~
उपक्रमभिक्षेपानुयोगनयानां क्रमः
॥ २७ ॥