SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) .... मूलं ४३-४४] / गाथा ||८१...|| प्रत नन्दी- हारिभद्रीय सूत्रांक गमिकादि ॥८९॥ [४३-४४] गाथा ||८१..|| तेभ्यश्चाकारस्य स्वभावभेदन व्यावृत्तत्वात् , स्वभावभेदेन व्यावृत्त्यनभ्युपगमे च घटादिपर्यायाणामेकत्वप्रसंगाद्,अतः स्वभावभेदनिबन्धनत्वादकारपोयता तेषामिति,तस्मात् स्वपरपर्यायापेक्षया खल्वकारस्य सर्वद्रव्यपर्यायराशितुल्यधर्मताऽविरोध इति, न चेदमु- सूत्र, यत आगमेऽप्युक्तम्-"जे एग जाणति से सब जाणति, जे सम्बं जाणति से एग जाणति"त्ति, अस्यायमर्थः-य एक वस्तूपलभते | सर्वपयोयैः स सर्वमुपलभते, कश्चैकं सर्वपर्यायैरुपलभते य एव सर्व सर्वथोपलभत इत्यता-सर्वमजानानो नाकारं सर्वधोपलभत इति, ततश्चास्मात् सत्रात् सर्वमेव वस्तु सर्वद्रव्यपर्यायराशितुल्यधर्मक, इह त्वक्षराधिकारादक्षरमुक्तमिति, इतश्चतदकारायेव प्रतिपत्तव्यं अस्मिन्नेवाधिकारेऽक्षरस्यानन्तभागो नित्योद्घाटित इत्युपन्यस्तत्वात्, केवलस्य चाविभागसम्पूर्णत्वेन निकृष्टानन्तभागासम्भवाद् अवधेरप्यसंख्येयप्रकृतिभेदभिन्नत्वान्मनःपर्यायज्ञानस्याप्योधत ऋजुविपुलभेदभिन्नत्वात् पारिशेप्यादकारादिश्रुताक्षरस्य निबन्ध| नज्ञानस्यवासावित्यलं प्रसंगेन, 'सेतं' इत्यादि निगमनद्वयमपि निगदसिद्धगं ॥ 'से किंत' मित्यादि । (४४-२०२)॥ अथ किं तद्गमिकम् , हादिमध्यावसानेषु किञ्चिद्विशेषतः पुनस्तत्सूत्रोच्चारणलक्षणो गमः, यथाऽऽदिविशेष तावत'इह छज्जीवणिके' त्यादि, गमा अस्य विद्यन्ते इति 'अत इनिठमा' विति (५-२-१२५) गमिक, इदं च प्रायोवृच्या दृष्टिवादे, तस्यैव गमबहुलत्वात् , अगमिकं तु प्रायो गाथाद्यसमानग्रन्थत्वात् कालिकश्रुतमाचारादि, 'से तमित्यादि निगमनद्वयं कण्ठ्यं । 'तं समासतो दुविहं पन्नत्तं तद्गमिकागामिकं अथवा तदोषश्रुतमर्हदुपदेशानुसारि समासतः संक्षेपण द्विविधं प्रज्ञप्तं, तद्यथा-अङ्गप्रविष्टं अङ्गाबाह्य च, अत्राह-पूर्वमेव चतुर्दशभेदोदेशाधिकार अङ्गप्रविष्टं च अंगवाई चेत्युपन्यस्तै, किमर्थं पुनस्तत् समासत इत्याद्युपन्यासेन तदेवोद्दिश्यत इति ?, अत्रोच्यते, सर्वेभेदानामेवाङ्गानाप्रविष्टभेदद्वयान्त- दीप अनुक्रम [१३६ 1534 । ॥८९॥ १३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः ... अत्र श्रुतज्ञानस्य गमिक-अगमिक भेदयो: वर्णनं आरभ्यते ~102
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy