SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [ ४२-४३] गाथा ॥८९..।। दीप अनुक्र [१३५ १३६] नन्दी - हारिभद्रीय वृतौ ॥ ८८ ॥ [भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [४२-४३] / गाथा ||८१... || कथं केवलपर्यायपरिमाणतुल्यं भवेद् ?, उच्यते, नन्वत्राप्यपर्यवसितश्रुताधिकारादकाराद्येव गम्यते, अथ मतिः- 'सब्वजीवाणंपिय णं अक्खरस्स अणतभागो णिच्चुग्घाडिओ'त्ति सर्वजीवग्रहणान तच्छुतं यतः समस्तद्वादशांगविदां तत् समस्तमिति, यद्येवं केवलस्यापि न सर्वजीवानामेवानन्तभागोऽवतिष्ठते, सर्वज्ञसद्भावात्, अतो न तत् केवलाक्षरमपि कस्यासावनन्तभागोऽस्तु है, तथा अविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणादपिशब्दाद्वा केवलिनो विहायान्येषां अनन्तभागो गम्यते, अत एव किं न श्रुतात्मकमक्षरमंगीकृत्य समस्तद्वादशांगविदो विहायान्येषां अनन्तभागो गम्यते, तस्मात् स्वपरपर्याय भेदा दुभयमप्यविरुद्धमिति, तथाऽप्यत्रापर्यवसितश्रुताधिकारादकाराधेव न्यायानुपाति, तत् पुनरनन्तपर्यायम्, इह अ अ अ इत्यकार उदात्तोऽनुदात्तः स्वरितः, स सानुनासिको निरनुनासिकच, एवं दीर्घः प्लुतः, एवं तावदष्टादशप्रभेदं अवर्ण अवते, एवं यावतः केवल एवाकारो लभते सानुनासिकादीन् तथाऽन्यवर्णसहितो वा तेऽप्यस्य स्वपर्यायाः, ते चानन्ताः कथम्?, अभिलाप्यबाद्यनिमिचभेदात् तस्य च परमाणुभ्यणुकादिभेदेनानन्तत्वात् ध्वनेश्व तथा तथाभिधायकत्वपरिणामे सति तत्तदर्थप्रतिपादकत्वादिति, सांकेतिकशब्दार्थसम्बन्धवादिमतमप्यावश्यके नयाधिकारे विचारविष्यामः, ततश्चैते स्वपर्यायाः, शेषास्तु सर्व एव घटादिपर्यायाः परपर्याया इति, ते पुनः स्वपर्यायेभ्योऽनन्तगुणाः, आह-स्वपर्यायाणां तावत्पर्यायता युक्ता, घटादिपर्यायास्तु विभिन्नवत्वाश्रितत्वात् कथं तस्येति व्यपदिश्यन्ते, उच्यते, स्वपर्यायविशेषणोपयोगात, इह ये यस्य स्वपर्यायविशेषणतयोपयुज्यन्ते ते तस्य पर्यायतया व्यपदिश्यन्ते, यथा घटस्य रूपादयः, उपयुज्यन्ते चाकारस्वपर्यायाणां विशेषणतया घटादिपर्यायाः, तानन्तरेण स्वपर्यायव्यपदेशाभावात्, तथा वस्तुस्थित्याऽपि च घटादिपर्याया अभावरूपेणाकारस्य व्यवस्थितत्वाद् घटादिपर्यायाणां अकारपर्यायतायामविरोध इति, इयमत्र भावना घटादिपर्यायाणामनन्तत्वा सादिसपर्य वसितादि 101~ ॥ ८८ ॥ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy