SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-6] "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४ अध्ययनं [१], नियुक्ति: [८८७], विभा गाथा H, भाष्यं [१५१...], मूलं [- /गाथा-], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक COMPA दीप अनुक्रम दाप्रतिपत्तिलाघवं भवतीत्यलं प्रसङ्गेन ॥ तदेवं विनेयजनानुग्रहार्थं नयानुगमादीनां प्रसङ्गतो विषयविभागः प्रदर्शिता, अधुना प्रकृतं प्रस्तुमः, तत्र प्रकृतमिदं-सूत्रानुगमे सूत्रमुच्चारणीयम् , तच्च पञ्चनमस्कारपूर्वक तस्याशेषश्रुतस्कन्धान्तर्गतत्वात् , ततोऽसावेव सूत्रादौ व्याख्येयः, सूत्रादित्वात् , सर्वसम्मतसामायिकसूत्रादिवचनवत्, सूत्रादिता चास्य नियुक्तिकृता सूत्रादी व्याख्यायमानत्वादवसेया, अन्ये तु व्याचक्षते-मङ्गलत्वादेवायं सूत्रादी व्याख्यायते, तथाहि-त्रिविध मङ्गल-आदी मध्येऽवसाने च, तत्र आदिमङ्गलार्थ नन्दी व्याव्याता, मध्यमङ्गलार्थ तीर्थङ्करादिगुणाभिधायकः 'तित्थयरे भयवंते' इत्यादिगाथासमूहः, नमस्कारस्त्ववसानमङ्गलार्थ इति, एतच्चायुक्त, शास्त्रस्यापरिसमाप्तत्वेनावसानत्वायोगात्, न चादिमङ्गलवमप्यस्योपपन्नं, तस्य कृतत्वात् , करणे चानवस्थाप्रसङ्गात् , यदिवा कृतं परबुद्धिमान्धप्रदर्शनेन, न खल्वेष सतां न्यायः, ततो गुरुवचनात् यथावधारितं तत्त्वार्थमेव ब्रूमः, सूत्रादिनमस्कारः, अतस्तमेव प्राग्व्याख्याय सूत्रं व्याख्यास्यामः, स चोत्पत्त्याद्यनुयोगद्वारानुसारतो व्याख्येय इति नमस्कारनियुक्तिप्रस्तावनीमिमामाह गाथां नियुक्तिकार: उपपत्ती १ निक्खेवो २ पयं ३ पयत्यो ४ परूवणा ५ वत्थू ६।। अक्खेव ७ पसिद्धि ८ कमो९पओअण १० फलं ११ नमुकारो ॥ ८८७॥ ४ा उत्पदनमुत्पादः प्रसूतिरुत्पाद इत्यर्थः, सोऽस्य नमस्कारस्य नयानुसारतश्चिन्तनीयः, तथा निक्षेपणं निक्षेपो-न्यासः, स चास्य कार्यः, पद्यतेऽनेनेति पदं, तच्च पञ्चधा-नामिक नपातिक औपसर्गिकमाख्यातिकं मिश्र च, तत्र अश्व इत्यादि नामिकं, च वा ह अह इत्यादि नैपातिक, प्र परा इत्यादि औपसर्गिकं, पठति भुते इत्याद्याख्यातिक, संयत इत्यादि मिश्र, तदस्य [१] JanEducatok Furniste AFennaiUse Cily मू. (१) नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहणं ___एसो पंच नमुक्कारो, सव्व पावप्पणासणो, मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं मूलसूत्र -(१) "नमस्कार सूत्र" हमने पूज्यपाद आचार्य सागरानंदसूरीश्वरजी संपादित “आगममंजुषा" पृष्ठ-१२०५ के आधार से यहां लिखा है | ~97
SR No.035066
Book TitleSavruttik Aagam Sootraani 2 06 Aavashyak Niryukti evam Vrutti Aagam 40 Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy