SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-6] "आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ४ अध्ययनं [१], निर्युक्तिः [ ८८५-८८६], वि०भा० गाथा [१००९-१०१०,२८०१ ], भाष्यं [ ९५९...], मूलं [- / गाथा-], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृि श्रीआव श्यकमल यगिरीय वृत्ती सूत्रा नुगमः ॥ ४८४ ॥ विषयवि भागाः अल्पाक्षरं नाम मिताक्षरं यथा सामायिकसूत्रं, असन्दिग्धं यत् सैन्धवशब्दवत् लवणपटघोटकाद्यनेकार्थसंशयकारि न सूत्रगुणाः भवति, सारवत्-बहुपर्यायं प्रतिमुखमनेकार्थाभिधायकं वा, विश्वतोमुखं अनेक मुर्ख, प्रतिसूत्रमनुयोगचतुष्टयाभिधानात्, अस्तोभकं चवावैहहिकारादिपदच्छिद्रपूरणस्तोभकशून्यं, स्तोभका निपाता इति पूर्ववैयाकरणेषु प्रसिद्धेः, अनवद्यम् - अग र्ह्यमहिंसाप्रतिपादकं न 'पट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनात् न्यूनानि पशुभिस्त्रिभिः ॥ १ ॥ ' इत्यादिवचनमिव हिंसाभिधायकं, एवंभूतं सूत्रं सर्वज्ञभाषितमिति ॥ ततः सूत्रानुगमात् सपदच्छेदसूत्रोच्चारणरूपात् सूत्रेऽनुगते, किमुक्तं भवति ?, अनवद्यमिति निश्चिते सूत्रपदनिक्षेपलक्षणः सूत्रालापकन्यासः प्रवर्त्तते, तदनन्तरं सूत्रस्पर्शिकनियुक्तिः चरमानुयोगद्वारा विहिता नयाश्च भवन्ति, समकं चैतत्प्रतिसूत्रमनुगच्छति, तथा चाह भाष्यकृत् -सुत्तं सुत्तागमो सुत्ताला वगकतो य निक्खेवो सुत्तष्फासियनिवृत्ति नया य समगं तु वच्चति ॥ १ ॥ (वि. २८०१) सूत्रानुगमादीनां त्वयं विषयविभागः सपदच्छेदं सूत्रमभिधाय भवति सूत्रानुगमोऽवसितप्रयोजनः, सूत्रालापकन्यासोऽपि नामादिनिक्षेपमात्रमेवाभिधाय, सूत्रस्पर्शिक नियुक्तिस्तु पदार्थविग्रहविचारप्रत्यवस्थानाद्यभिधाय तच्च प्रत्यवस्थानादि प्रायो नैगमादिनयमतविषयमतो वस्तुतस्तदन्तर्भाविन एव नया इति, न चैतत् स्वमनीषिकाविजृम्भितम्, यत आह भाष्यकारःहोइ कयस्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालाबगनासो नामादिन्नासविणिओगं ॥ १ ॥ (वि.१००९) सुत्तफासिय निज्जुत्तिनियोगो सेसओ पयत्थादी। पायं सोविय नेगमनयाइमयगोयरो होइ ॥ २॥ (वि. १०१० ) आह-यद्येवं क्रमस्ततः किमित्युत्क्रमेण निक्षेपद्वारे सूत्रालापकन्यासोऽभिहितः १, उच्यते, निक्षेपसामान्यात्, एवं हि For Frate & Personal Use Only ~96~ ॥ ४८४ ॥
SR No.035066
Book TitleSavruttik Aagam Sootraani 2 06 Aavashyak Niryukti evam Vrutti Aagam 40 Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy