________________
आगम
(४०)
प्रत
सूत्रांक
[..]
गाथा
||||
दीप
अनुक्रम
[3]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ४
अध्ययनं [२], निर्युक्तिः [१०८८-१०९१] वि०भा० गाथा [-] भाष्यं [२०५...], मूलं [१...] / गाथा [१] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
श्री आव ० मलयगि० वृत्ती सूत्रस्पर्शिका
॥ ५९८ ॥
इति तद्व्यवच्छेदार्थं धर्म्मतीर्थंकरानित्युक्तं । आह-यद्येवं धर्म्मतीर्थ करा नित्येतावदेवास्तु, लोकस्योद्योतकरानिति न वाच्यं, उच्यते, इह लोके येऽपि नद्यादिविषमस्थानेषु सुधिकया धर्मार्थमवतरणतीर्थकरणशीलास्तेऽपि धर्म्मतीर्थकरा भण्यन्ते, ततो मा भूदतिमुग्धबुद्धीनां तेषु सम्प्रत्यय इति तदपनोदाय लोकस्योद्योतकरानित्याह । अपरस्त्वाह-जिनानित्यतिरिच्यते, तथाहियथोक्तप्रकारा जिना एव भवन्तीति, उच्यते, इह केषांचिदिदं दर्शनं- "ज्ञानिनो धर्म्मतीर्थस्य कर्त्तारः परमं पदम् । गत्वाऽऽगच्छति भूयोऽपि भृशं ( भवं ) तीर्थनिकारतः ॥ १ ॥ इत्यादि, ततस्तन्मत परिकल्पितेषु यथोक्तप्रकारेषु मा भूत् सम्प्रत्यय इति तद्व्यवच्छेदार्थ जिनानित्याह, जिना नाम रागादिजेतारः, ते च कुनयपरिकल्पिता जिना न भवन्तीति, तीर्थनिकारतः पुनरिह भवाकरोत्पादनाद्, अन्यथा स न स्यात्, बीजाभावात् तथा चोकमन्यैरपि - "अज्ञानपांशुपिहितं पुरातनं कर्म्मवीजमविनाशि। तृष्णा जलाभिषिक्तं मुञ्चति जन्माकुरं जन्तोः ॥ १ ॥ दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः कर्म्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ २ ॥" आह-यथेवं जिनानित्येतावदेवास्तु, लोकस्योद्योतकरानित्याद्यतिरिच्यते, उच्यते, इह प्रवचने सामान्यतो विशिष्टश्रुतधरादयोऽपि जिना उच्यते, तद्यथा श्रुतजिना अवधिजिना मनःपर्यायज्ञानि जिना छद्मस्थवीतरागाश्च ततो मा भूत्तेषु सम्प्रत्यय इति तदपनोदाय लोकस्योद्योतकरानित्याद्यप्यदुष्टं । अपरस्त्वाह- अर्हत इति न वाच्यं, न खल्वनन्तरोदितस्वरूपा अर्हदुव्यतिरेकेणापरे सम्भवन्ति, उच्यते, अर्हतामेव विशेव्यत्वान्न दोषः, आह-यद्येवं तर्हि अर्हत इत्येतावदेवास्तु, लोकस्योद्योतकरानित्यादि पुनरपार्थकं न तस्य विशेषणत्वात् विशेषणसाफल्यस्य च प्रतिपादितत्वादिति । अपरस्त्वाह- केवलिन इति न वाच्यं यथोक्तस्वरूपाणामर्हतां केवलित्वव्यभि
For Private & Personal Use Only
~324~
| जिनादिस्वरूपं
॥५९८॥