________________
आगम
(४०)
प्रत
सूत्रांक
[..]
गाथा
॥२-४॥
दीप
अनुक्रम [ ४-६ ]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्ति:+वृत्तिः) ४
अध्ययनं [२], निर्युक्तिः [ १०८८ - १०९१] वि० भा० गाथा [-] भाष्यं [ २०५...], मूलं [ १...] / गाथा [२४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
चाराभावात् सति च व्यभिचारसम्भवे विशेषणोपादानं फलवत्, तथा चोक्तं-" सम्भवे व्यभिचारे च विशेषणमर्थवद् भवति', यथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादीयमानमपि न कंचनार्थं पुष्णाति, यथा कृष्णो भ्रमरः शुहा बलाकेति, तस्मात् केवलिन इत्यतिरिच्यते, न, अभिप्रायापरिज्ञानात्, इह केवलिन एव यथोक्तस्वरूपा अर्हन्तो, नान्ये | इति नियमार्थेन स्वरूपज्ञापनार्थमिदं विशेषणमित्यनवद्यं, न खल्वेकान्ततो व्यभिचारसम्भवे एव विशेषणोपादानं फलवत्, उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपपरिज्ञापने च शिष्टोक्तिषु तत्प्रयोगदर्शनात्, तत्र उभयपदव्यभिचारे यथा नीलोत्पलमिति, एकपदव्यभिचारे अब द्रव्यं पृथिवी द्रव्यमिति, स्वरूपपरिज्ञापने यथा परमाणुरप्रदेश इत्यादि, तस्मात्केवलिन इत्यदुष्टं । आह-यद्येवं केवलिन इत्येव सुन्दरं, शेषं तु लोकस्योद्योतकरानित्यादि किमर्थमिति, उच्यते, इह श्रुतकेवलिप्रभृतयोऽपि केवलिनो विद्यन्ते, तन्मा भूत्तेषु सम्प्रत्यय इति तत्प्रतिक्षेपार्थं लोकस्योद्योतकरानित्याद्यप्युक्तं । एवं व्यादिसंयोगापेक्षया विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यमिति कृतं प्रसङ्गेन प्रयासस्य गमनिकामात्र फलत्वात् ॥ सम्प्रति यदुक्तं 'कीर्त्तयिष्यामि' इति कीर्त्तनं कुर्वन्नाह सूत्रकृत्
उसभमजिअ च वंदे संभवमभिनंदणं च सुमई च । पउमप्पहं सुपासं जिणं च चंदप्यहं वंदे ॥ २ ॥ सुविहिं च पुप्फदंतं सीयल सिद्धंस वासुपूज्जं च । विमलमणतं च जिणं धम्मं संतिं च वंदामि ॥ ३ ॥ अरं च मल्लि वंदे मुणिसुद्वयं नमिजिणं च । वंदामि रिद्वनेमेिं पासं तह वद्धमाणं च ॥ ४ ॥ ( सूत्राणि ) एतासां तिसृणामपि सूत्रगाथानां व्याख्या-इह भगवतामर्हतां नामानि अन्वर्थमधिकृत्य सामान्यलक्षणतो विशेषल
For Private & Personal Use Only
... अथ तिर्थकरस्य 'ऋषभ', अजित आदि नामानाम् व्याख्या: क्रियते
~325~