________________
आगम
(४०)
प्रत
सूत्रांक
[..]
गाथा
||||
दीप
अनुक्रम
[3]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ४
अध्ययनं [२], निर्युक्तिः [१०८८-१०९१] वि०भा० गाथा [-] भाष्यं [२०५...], मूलं [१...] / गाथा [१] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीभाव०
मलयगि० वृत्तौ सूत्रस्पर्शिका
॥ ५९७ ॥
1966
यशः- पराक्रमकृतं, पराक्रमसमुत्थः साधुवाद इति भावः, अभयादयः प्रकटार्थाः, नवरमन्तकर इत्यत्रान्तः कर्म्मणां तत्फलभूतस्य वा संसारस्य परिगृह्यते ॥ उक्तो भावकरः, अधुना जिनादिप्रतिपादनार्थमाहजिअकोह- माण- माया जिअलोभा तेण ते जिणा हुति । अरिणो हन्ता रयं हंता अरिहंता तेण बुचंति ॥१०८८॥ जितक्रोधमानमाया जितलोभा येन कारणेन भगवन्तस्तेन कारणेन जिना भवन्ति, 'अरिणो हंता' इत्यादि गाथादलं यथा नमस्कारनिर्युकी व्याख्यातं तथैव द्रष्टव्यं ॥ साम्प्रतं 'कीर्त्तयिष्यामि' इत्यादि व्याचिख्यासुरिदमाहकित्तेमि कित्तणिज्जे सदेवमणुआसुरस्स लोगस्स । दंसणनाणचरित्ते तवविणयो दंसिओ जेहिं ॥ १०८९ ॥ 'कित्तेमि' त्ति प्राकृतत्वात् कीर्त्तयिष्यामि, नामभिर्गुणैश्च किंभूतान् ? - कीर्त्तनीयान् स्तवार्हानित्यर्थः, कस्येत्यत्राह - 'सदेवमनुजासुरस्य लोकस्य त्रैलोक्यस्येति भावः, गुणानुपदर्शयति-दर्शनज्ञानचारित्राणि मोक्षकारणानि, सूत्रे चैकवचनं समाहारत्वात्, तथा तपोविनयोऽत्र दर्शितः यैः, तत्र तप एव कर्म्मविनयात् तपोविनयः ॥
चउवीसंति अ संखा उसभाईआ उ भण्णमाणा उ । अविसद्दग्गहणा पुण एरवयमहाविदेद्देसु ॥ १०९० ॥ चतुर्विंशतिरिति संख्या, ते तु ऋषभादिका भव्यमाना एव, तुशब्द एवकारार्थः, अपिशब्दग्रहणात् पुनः ऐरवत - महाविदेहेषु ये भगवन्तस्तद्द्महोऽपि वेदितव्यः, इह सूत्रे 'तात्स्थ्यात्तद्व्यपदेश' इति न्यायादैरावतमहाविदेहाश्चेत्युक्तम् ॥ कसिणं केवलकप्पं लोगं जाणंति तह य पासंति । केवलचरितनाणी तम्हा ते केवली हुंति ॥ १०९१ ॥ ‘कृत्स्नं' सम्पूर्ण ‘केवलकल्प' केवलोपमं, इह कल्पशब्द औपम्ये गृह्यते, उक्तं च- "सामर्थ्य वर्णनायां च, छेदने
*** अथ 'जिन' एवं अरिहंत' शब्द व्याख्यायेते
For Private & Personal Use Only
~ 322~
जिनादिस्वरूपं
॥ ५९७ ॥