________________
आगम
(४०)
प्रत सूत्रांक
[3]
दीप
अनुक्रम
[२]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्ति:+वृत्तिः) ४
अध्ययनं [१], निर्युक्तिः [१०६४ १०६६ ], वि० भा० गाथा [-] भाष्यं [१९१...], मूलं [१] / गाथा [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोर्ज्ञातत्वानुकर्षणार्थ: उक्षेपणीयवस्तुसमुच्चयार्थो वा, एवकारस्ववधारणार्थः, तस्य चैवं व्यवहितं प्रयोगो द्रष्टव्यः- ज्ञात एवं ग्रहीतव्ये, तथा अग्रहीतव्ये उपेक्षणीये च ज्ञात एव, नाज्ञातेऽर्थे ऐहिकामु ष्मिके, तत्र ऐहिको ग्रहीतव्यः स्रकन्दनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः अग्रहीतव्यो मिथ्यात्वादिः उपेक्षणीयो विवक्षया अभ्युदयादिः तस्मिन्नर्थे यतितव्यमेव, अनुस्वारलोपात् यतितव्यं, एवमनेन क्रमेण ऐहिकामुष्मिकफलप्रात्यर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणो यत्नः कार्य इत्यर्थः इत्थं चैतदङ्गीकर्त्तव्यं, सम्यक् अज्ञाते प्रवर्त्तमानस्य फलविसंवाददर्शनात्, तथा चोक्तमन्यैरपि - " विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य फलासंवाददर्शनात् ॥ १ ॥” तथा आमुष्मिकफलप्रात्यर्थिनाऽपि ज्ञान एव यतितव्यं, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम्- "पढमं नाणं तओ दया, एवं चिट्ठइ सवसंजए । अन्नाणी किं काहिति ? |किंवा नाही छेपावगं ? ॥ १ ॥ इतश्चैतदेवमङ्गीकर्त्तव्यं, यस्मात् तीर्थकर गणधरैरगीतार्थानां केवलानां विहारक्रिया पि निषिद्धा, तथा चागमः- “ गीयत्थो य विहारो बीओ गीयत्थमीसितो भणितो । एतो तइयविहारो नानुज्ञातो जिणवरे हिं ॥ १ ॥” न खम्बन्धेनान्धः समाकृष्यमाणः सम्यक् पन्थानं प्रतिपद्यते इत्यभिप्रायः एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव वेदितव्यं यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्य उत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिरुपजायते यावजीवाजीवाद्य खिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माद् ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितं, 'इइ जो उबदेसो सो नओ नामं ति एवमुक्तन्यायेन
For Frate & Personal Use Only
~301~