SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [१] दीप अनुक्रम [२] [भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्ति:+वृत्तिः) ४ अध्ययनं [१], निर्युक्तिः [१०६४ १०६६ ], वि० भा० गाथा [-] भाष्यं [१९१...], मूलं [१] / गाथा [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः य उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम, ज्ञाननय इत्यर्थः, अयं च चतुर्विधे सम्यक्त्वादिसामायिके सम्यक्त्वसामायिकं श्रुतसामायिकं चेच्छति, अस्य ज्ञानात्मकत्वात्, देशविरतिसामायिकं सर्वविरतिसामायिकं तु नेच्छति, तयोस्तत्कार्यत्यात्, गुणभूते बेच्छति, उक्तो ज्ञाननयः, सम्प्रति क्रियानयावसरः, तद्दर्शनं चेदं क्रियैव ऐहिकामुष्मिकफलप्राप्तिकारणं प्रधानं, युक्तियुक्तत्वात् तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह - 'नायंमि गिव्हियत्रे' इत्यादि, अस्य क्रियानयदर्शनानुसारेण व्याख्या- ज्ञाते ग्रहीतव्याग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिक फलप्राप्त्यर्थिना यतितव्यमेव, न ॥ ५८७ ॥ यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिरुपलभ्यते, तथा चोक्तमन्यैरपि “क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ १ ॥” तथाऽऽमुष्मिकफलप्रात्यर्थिनापि क्रियैव कर्त्तव्या, तथा च भगवद्वचनमप्येवमेव व्यवस्थितं यत उक्तम्- "चेइयकुलगणसंधे आयरियाणं च पवयण सुए य। सधेसुवि तेण कथं तवसंजममुज्जमंतेणं ॥ १ ॥ इतश्चैतदेवमङ्गीकरणीयं यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः सुबहुपि सुयमहीयं किं काहिइ चरणविप्पहीणस्स ? | अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥ १ ॥” दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः, एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, चारित्रं क्रियेत्यनर्थान्तरं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं यस्मादर्हतोऽपि भगवतः समुत्पन्न केवलज्ञानस्यापि न तावत् मुक्त्यवाप्तिः सम्भवति यावदखिलकर्मेन्धनानलभूता पञ्चहस्वाक्षरोङ्गिरणकालमात्रावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्यते, ततः क्रियैव प्रधानमैहिकामुष्मिक फलप्राप्तिकारणमिति स्थितं, 'इइ जो उपदेसो सो श्रीआव० मलयगि० वृतौ सूत्रस्पर्शिका For Frate & Personal Use Only ~302~ ज्ञानक्रियानयौ ।। ५८७ ॥
SR No.035066
Book TitleSavruttik Aagam Sootraani 2 06 Aavashyak Niryukti evam Vrutti Aagam 40 Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy