________________
आगम
(४०)
प्रत
सूत्रांक
[१]
दीप अनुक्रम [२]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्ति:+वृत्तिः) ४
अध्ययनं [१], निर्युक्तिः [१०५३- १०५४ ], वि० भा० गाथा [-] भाष्यं [ १८९...], मूलं [१] / गाथा [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
ख्यानं भावप्रत्याख्यानं च तत्र नामप्रत्याख्यानं प्रत्याख्यानमित्यभिधानमुकं, यदिवा यत्य प्रत्याख्यानमिति नाम स नामनामवतोरभेदोपचात् नामप्रत्याख्यानं, स्थापनाप्रत्याख्यानम् आगारकवनिक्खेवो इति, आकारोऽनिक्षेपश्च, अक्षग्रहणमन्येषामपि निराकाराणामुपलक्षणं, इयमत्र भावना-चित्रकर्म्मादौ प्रत्याख्यानं कुर्वतो या स्थापना सा प्रत्याख्यानप्रत्या| ख्यानवतोरभेदोपचारात् स्थापनाप्रत्याख्यानं आकारवत्, अक्षवराटकादी स्थापना निराकारं स्थापनाप्रत्याख्यानं ॥ सम्प्र ति द्रव्यप्रत्याख्यानादिप्रतिपादनार्थमाह-
धम्म निष्हगाई निसियाई अ हुंति खित्तम्मि । भिक्खाईणमदाणे अइच्छ भावे पुणो दुविहं ॥ १०५३ ॥ द्रव्ये द्रव्यविषयं प्रत्याख्यानं निह्नवः, आदिशब्दात् द्रव्यस्य द्रव्ययोर्द्रव्याणां द्रव्यभूतस्य द्रव्यहेतोर्वा प्रत्याख्यानं, 'निधिलाई य होन्ति वित्तम्मि' निर्विषयादि भवति प्रत्याख्यानं क्षेत्रे, तत्र यो निर्विषय आदिष्टस्तस्य क्षेत्रप्रत्याख्यानं, आदिशब्दान्नगरादिप्रतिषिद्धपरिग्रहः, तथा भिक्षादीनां भिक्षणं भिक्षा-प्राभृतिका, आदिशब्दाद्वस्त्रादिपरिग्रहः, तेषामदाने अतिगच्छेति अदित्सेति वा वचनं, अतिगच्छप्रत्याख्यान मदित्साप्रत्याख्यानं वा, भावे भावविषयं पुनर्द्विविधं प्रत्याख्यानं, भावप्रत्याख्यानमित्यत्र चैवं व्युत्पत्तिः, भावस्य - सावद्ययोगस्य प्रत्याख्यानं भावप्रत्याख्यानं, भावतो वा शुभात् परिणामात् प्रत्याख्यानं भाव एव वा सावद्ययोगविरतिलक्षणः प्रत्याख्यानं भावप्रत्याख्यानं ॥ सम्प्रति द्वैविध्यमेवोपदर्शयति-सुअ-नोसुअ सुअ दुविहं पुत्रमपुत्रं तु होइ नायवं । नोसुअपचक्षाणं मूले तह उत्तरगुणे य ॥ १०५४ ॥ द्विविधं भावप्रत्याख्यानं श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च, 'सुय दुवि हूं'ति श्रुतप्रत्याख्यानं द्विविधं भवति ज्ञातव्यं,
For Private & Personal Use Only
~ 285 ~