SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-6] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४ अध्ययनं [१], नियुक्ति: [१०४२], वि०भा०गाथा H, भाष्यं [१८४], मूलं [१] / गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक [१] RECCAMSAXC दीप अनुक्रम ___ भवति भदन्त इति, 'भदुइ कल्याणे सुखे च' अस्मादौणादिकोऽन्तप्रत्ययः, औणादिकत्वादेव नमो लोपः, भदन्तःहै कल्याणः सुखश्चेत्यर्थः, प्राकृतत्वादामन्त्रणे 'भन्ते' इति भवति, अथवा प्राकृतशैल्या भवान्त इति द्रष्टव्यं, तत्र भवस्य संसारल्यान्तस्तेनाचार्येण क्रियते इति भवान्तकरत्वाद् भवान्तः, अथवा भयान्त इति द्रष्टव्यं, तत्र भयं-त्रासः, तमाचार्य प्राप्य भयस्यान्तो भवतीति भयांतभवनात् भयान्तो-गुरुः, यदिवा अन्तं करोतीत्यन्तकः भयस्यान्तको भयान्तकः तस्य सम्बोधनं, उभयत्रापि प्राकृतत्वात् भन्ते इति भवति, तत्र रचना-(नामादि)विन्यासलक्षणा भयस्य पडूभेदा-षट्पकारा, नामस्थापनाद्रव्यक्षेत्रकालभावभेदमिन्ना, तत्र नामस्थापने सुगमे, द्रव्यक्षेत्रकालभयान्यपि प्रतीतानि, द्रव्याद्य द्रव्यभयमित्येवं सर्वत्र पञ्चमीतत्पुरुषसमाश्रयणात्, अन्यथा वा यथायोगं भावनीय, भावभयं सप्तधा-इहलोकभयं परलोकभयं आदानभयमाकस्मिकभयं आजीविकाभयं अश्लोकभयं मरणभयं चेति, तत्र यत् स्वभवात्प्राप्यते यथा मनुष्यस्य मनुष्यात् तिरश्चः तिर्यग्भ्य इत्यादि तदिहलोकभयं, यत् परभवादेवाप्यते, यथा मनुष्यस्य तिरश्चः तिरश्चो मनुष्यात् तत्परलोकभयं, किचन द्रव्यजातमादानं तस्य नाशहरणादिभ्योभयं आदानभयं, यद् बाह्यनिमित्तमन्तरेणाहेतुकं भयमुपजायते तदकस्माजवतीत्याकस्मिकं, तथा 'श्लोक श्लाघायां' श्लोकः-प्रशंसा श्लाघा तद्विपर्ययोऽश्लोकः तस्मादयं अश्लोकभयं आजीविका-आजीवनं तस्या उच्छेदेन भयमाजीविकाभयं, प्राणपरित्यागभयं मरणभयं, एवं अनुक्रमेणोक्तलक्षणेन सर्वस्मिन् वर्णितेऽन्तेऽपि षड् भेदा वर्णयितव्याः, तद्यथा-नामान्तः स्थापनान्तो द्रव्यान्तः क्षेत्रान्तः कालान्तो भावा [२] CCCCC JanEducatuR For F lutely ~273
SR No.035066
Book TitleSavruttik Aagam Sootraani 2 06 Aavashyak Niryukti evam Vrutti Aagam 40 Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy