________________
आगम
(४०)
प्रत सूत्रांक
[3]
दीप
अनुक्रम
[२]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ४
अध्ययनं [१], निर्युक्तिः [१०२७], वि० भा० गाथा [-], भाष्यं [ १५१...], मूलं [१] / गाथा [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
यावज्जीवा तया, त्रिविधमिति तिस्रो विधा यस्य सावद्ययोगस्य स त्रिविधः, स च प्रत्याख्येयत्वेन कम्र्म्म सम्पद्यते, कम्र्म्मणि च द्वितीया विभक्तिः, अतस्तं त्रिविधं मनोवाक्कायव्यापारलक्षणं कायवाङ्मनःकर्म्म योग' ( तत्त्वा अ. ६ सू १ ) इति वचनात्, 'त्रिविधेनेति करणे तृतीया, मनसा वाचा कायेन, तत्र 'बुधी मनी ज्ञाने' मननं मन्यते वाऽनेनेति मनः, औणादिकोsस्प्रत्ययः, तच्चतुर्द्धा, नामस्थापनाद्रव्यभावभेदात्, नामस्थापने सुगमे, द्रव्यमनो ज्ञशरीरभव्यशरीरव्यतिरिक्तं तद्योग्यपुद्गलमयं भावमनो मंता जीव एव, 'वच परिभाषणे' वचनं उच्यते इति वाकू, सापि चतुर्विधा नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने सुगमे, द्रव्यवाक् ज्ञशरीर भव्यशरीरव्यतिरिक्ता शब्दपरिणामयोग्याः जीवपरिगृहीताः १ भाववाक् पुनस्त एव पुद्गलाः शब्दपरिणाममापन्नाः, तथा 'चिञ् चयने' चयनं चीयते वा कायः 'चित्युपसमाधानावसथदेहे कञ्चादि' रिति घञ् चकारात् ककारः, पुद्गगलानां चयात् पुद्गलानामेवावयवरूपतया समाधानात् जीवस्य निवासात् प्रतिक्षणं केषाञ्चित्पुद्गलानां क्षरणात् कायः शरीरं, सोऽपि नामस्थापनाद्रव्यभावभेदाच्चतुर्घा, तत्र नामस्थापने प्रतीते, द्रव्यकायो ज्ञशरीर भव्यशरीरव्यतिरिक्तः शरीरत्वयोग्या अगृहीतास्तत्स्वामिना वा जीवेन मुक्ता यावत् तं परिणामं न मुश्चंति तावद् द्रव्यकायः, भावकायस्तु तत्परिणामपरिणता जीवबद्धा जीवसंयुक्ताश्च पुद्गलाः, अनेन त्रिविधेन कर|णेन त्रिविधं पूर्वाधिकृतं सावधं योगं न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि न अनुमन्येऽहमिति, तस्येत्यधिकृतस्य सावद्ययोगस्य ( भयान्त इति पूर्ववत् ) प्रतिक्रमामि - निवर्त्ते निन्दामि - जुगुप्से, गर्हे इति स एवार्थः, किन्तु आत्मसाक्षिकी निन्दा गुरुसाक्षिकी गर्हति, किं जुगुप्से इत्यत आह-आत्मानम् - अतीत सावद्ययोगकारिणं, व्युत्सृजामि - वि
For Private & Personal Use Only
~241~