________________
आगम
(४०)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[२]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ४
अध्ययनं [१], निर्युक्तिः [१०२८-१०२९] वि०भा० गाथा [-] भाष्यं [ १५२ -१५३], मूलं [१] / गाथा [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
श्री आव ० मलयगि० वृत्तौ सूत्रस्पर्शिका
।। ५५७ ।।
विधार्थी विशेषार्थो वा विशब्दः, उच्छन्दो भृशार्थः, सृजामि-त्यजामि, विविधं विशेषेण भृशं त्यजामीति भावः एवं तावत्पदार्थ पदविग्रहौ यथासम्भवमुक्तौ, अधुना चालनाप्रत्यवस्थाने वक्तव्ये, अत्रान्तरे सूत्रस्पर्शिकनिर्युक्तिरुच्यते, स्वस्थानत्वात्, आह च नियुक्तिकारः-अक्खलिअसंहि आई वक्खाणच उक्कए दरिसिअम्मि । सुत्तप्फासि अनिजुत्ति- बित्थरत्थो इमो होइ ॥ १०२८ ॥ अस्खलिते - अस्खलितादौ सूत्रे उच्चरिते संहितादौ व्याख्यानचतुष्टये दर्शिते सति सूत्रस्पर्शिकनिर्युक्तिविस्तरार्थोऽयं भवतीति ॥ तमेव दर्शयति
करणे भए अ अंते सामाइअ सबए अबजे अ । जोगे पञ्चक्खाणे जावजीवाइ तिविहेणं ।। १०२९ ॥ 'करणे' करणशब्दे, एवं भयशब्दे अन्तशब्दे सामायिकशब्दे सर्वशब्देऽवद्यशब्दे योगशब्दे प्रत्त्याख्यानशब्दे यावजीविशब्दे त्रिविधेनेतिशब्दे च सूत्रस्पर्शिक निर्युक्तिर्भवति सा च सूत्रस्पर्शिक नियुक्तिरनुगमरूपा सूत्रालापकन्यासपूर्वकेति प्रथमतः करणनिक्षेपदर्शनायाह
| नामंठवणादविए खित्ते काले तहेव भावे अ । एसो खलु करणस्स उ निक्खेवो छविहो होइ ॥ १५२ ॥ (भा.) 'नाति नामकरणं स्थापना करणं द्रव्यकरणं क्षेत्रकरणं कालकरणं भावकरणं च एषः- एवंस्वरूपः खलु करणस्य निक्षेपः पद्विधो भवति ॥ तत्र नामस्थापने क्षुण्णे, सम्प्रति द्रव्यकरणप्रतिपादनायाह-जाग भविअरित्तं सन्नानोसन्नओ भवे करणं । सन्ना कडकरणाई नोसन्ना वीसस-पओगे ॥ १५३ ॥ (भा.)
& Personal Use Only
~242~
सूत्रपदनिक्षेपाः कर
|णाधिकारः
॥ ५५७ ॥