________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम [3]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ४
अध्ययनं [१], निर्युक्तिः [ ९९४-९९५ ], वि० भा० गाथा [-], भाष्यं [ १५१...], मूलं [- / गाथा-], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
व आचार्यः स एकभविकः, आचार्यभवयोग्य निबद्धायुर्वद्धायुष्कः, आचार्यभवानुगते यस्य नामगोत्रे उदयाभिमुखे सोऽभिमुखनामगोत्रः, तथाविधो द्रव्याचार्यः मूलगुणनिर्मित उत्तरगुणनिर्मितश्च तत्र मूलगुणनिर्मित आचार्यशरीरनिर्वर्त्तनयोग्यानि द्रव्याणि, उत्तरगुणनिर्मितस्तु तान्येव तदाकारपरिणतानीति, अथवा द्रव्यभूतोऽप्रधान आचार्यो द्रव्याचार्यः, द्रव्यनिमित्तं वा य आचारवान् स द्रव्याचार्यः, भावाचार्यो द्विधा - लौकिको लोकोत्तरश्च तत्र लौकिकः शिल्पशास्त्रादिः, एतचैवमुच्यते तत्परिज्ञानात् तदभेदोपचारेण, अन्यथा शिल्पादिग्राहको गृह्यते, अन्ये तु लौकिकलोकोत्तरभेदमकृत्वा सामान्यत एनमपि द्रव्याचार्य व्याचक्षते, यथा-शिल्पशास्त्रादिपरिज्ञाता, यथा शिल्पशास्त्रादिपरिज्ञाननिमित्तमाचार्यमाणो ॥ ५४९ ॥ ४ द्रव्याचार्य इति ॥ अधुना लोकोत्तरान् भावाचार्यान् प्रतिपादयति-
श्रीआव श्यकमल
यगिरीय
वृत्तौ नम
स्कारे
पंचविहं आयारं आयरमाणा तहा पगासंता । आयारं दंसंता आयरिया तेण बुचंति ॥ ९९४ ॥ पञ्चविधं पञ्चप्रकारं ज्ञानदर्शनचारित्रतपोवीर्यभेदात्, आचारं- आर मर्यादायां चरणं चारः मर्यादया - कालनियमादिलक्षणया चार आचारः, उक्तं च- "काले विणए बहुमाणे उवहाणे"त्यादि, आचरन्तः सन्तोऽनुष्ठानरूपेण, तथा प्रभापमाणा अर्थान्वाख्यानेन, तथा प्रत्युपेक्षणादिक्रियाद्वारेणाचारं दर्शयंतः सन्तो मुमुक्षुभिराचर्यन्ते सेव्यन्ते येन कारणेन आचार्यास्तेन कारणेनोच्यन्ते ॥ अमुमेवार्थ स्पष्टयन्नाह -
आयारो नाणाई तस्सायरणा पभासणातो वा । जे ते भावायरिया भावायारोवउत्ता व ।। ९९५ ॥ आचारो - ज्ञानादिः पञ्चप्रकारः तस्याचरणात् प्रभाषणात् वाशब्दाद् दर्शनाद्वा हेतोर्मुमुक्षुभिराचर्यम्ते- सेव्यन्ते ते
सिद्धसौख्यं
~ 226~
॥ ५४९ ॥
For Private & Personal Use Only
••• अत्र 'आचार्य' शब्दस्य प्रतिपादनम् एव वर्तते, मूल संपादने प्रत पृष्ठ - ५४९ से ५५२ पर्यन्तः यत् "सिङ्-सौख्यं मुद्रितं तत् मुद्रणदोष: मात्र ज्ञातव्यः