________________
आगम
(४०)
[भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३
अध्ययनं [-], नियुक्ति: [६०४], वि०भा०गाथा -, भाष्यं [१२७-१३०], मूलं -/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०], मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
हैस शरीरी अशरीरीति वा !, तत्र यथाद्यः पक्षस्ततःस शरीरी कथम् , अन्येन तच्छरीरकरणादिति चेत् ननु तत्रापीयमेव
वार्तेत्यनवस्थानुषङ्गा, अधाशरीरीति पक्षस्तदप्ययुक्तम्, अशरीरितया तस्याप्यारम्भकत्वायोगात्, स्यादेतद्-एष नः ६ सिद्धान्तो यदा कर्मरहितस्याप्यात्मनः शरीरकरणेच्छोपजायते तदा शरीरमारभते, आत्मनः सकलशक्तिसमन्वितत्वात्, दीअत एव मुक्तात्मनो न भूयः शरीरित्वप्रसङ्गः, शरीरकरणेच्छाया एवाभावात् , तदप्यश्लीलं, शुद्धस्य सतो रागद्वेषरहित
तया शरीरकरणेच्छाया एवाप्रवृत्तेः, मुक्तात्मवत्, ततः कर्मसद्वितीयःपुरुषः कति न सर्वाणि वेदपदानि कर्मसत्ताप्रतिषेधकानि,न तत् कर्म प्रत्यक्षप्रमाणगोचरातिक्रान्तं, मया साक्षात्प्रत्यक्षत उपलभ्यमानत्वात् , नाप्यनुमानगोचरातीतं भवतोऽप्यनुमानसिद्धत्वात् , तच्चेदमनुमान-शरीरान्तरपूर्वकं बालशरीरमिन्द्रियादिमत्वात् युवशरीरवत्, न च वाच्यं जन्मान्तरानीतशरीरपूर्वकत्वस्यास्माभिरभ्युपगतत्वात्सिद्धसाध्यता, जन्मान्तरशरीरस्यापान्तरालगतावभावेन तत्पूर्वकत्यायोगात् , तस्मात्कार्मणशरीरपूर्वकं बालशरीरमिति सिद्धं कर्म, अन्यथा प्रतिनियतदेशस्थानगर्भप्राप्तिर्नरपश्यादिरू. पेण वैचित्र्यं वा नोपपत्तिमत्, नियामकाभावात् , उक्त च-"आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तचित्रमदृष्ट कर्मसंज्ञकम् ॥१॥" अथ स्वभाव पव नियामको वैचित्र्यस्य न कर्मेति कर्मासिद्धिा, तदप्यनुपपन्न, विकल्पाभ्यामयोगात्, स हि स्वभावो वस्तुविशेषो वा स्यात् वस्तुधम्मों वा!,न तावत् वस्तुविशेषस्तस्याप्रामाणिकत्वात् , नहि स वस्तु विशेषः प्रत्यक्षप्रमाणसिद्धो नाप्यनुमानसिद्धो न छाप्यागमगम्य इत्यप्रमाणक एव, अन्यच्च-स वस्तुविशेषो मूर्तो वा अमूतों वा, यदि मूर्तः कर्मणोऽस्य न कश्चिद्भेदोऽन्यत्र संज्ञाभेदात, भवता हि वस्तुविशेष इति व्यवहियते मया तु कर्मेति,
CCCIRCRAC-ACC-434
दीप
अनुक्रम
466~