________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
[भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३
अध्ययनं [–], निर्युक्तिः [ ६०४ ], वि० भा०गाथा [-] भाष्यं [ १२७-१३० ], मूलं [- /गाथा -] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः
आवश्यके
श्रीमलयसमवसरणे
॥३२१॥
म्यते, ततः कथममूर्त्तस्य मूर्त्तेन सह संयोगः, संयुज्यमानता किल मूर्द्धानामेव धर्म्म इति प्रवादः, तथा कथममूर्तस्य मूर्चेन | कर्म्मणाऽनुग्रहोपघाती १, न खलु नभसञ्चन्दनादिनोपग्रहो लकुटादिना चोपघातो भवति, अथ च श्रुतिषु कर्मसत्ता | गीयते "पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा” ततो न विद्मः - किमस्ति कर्म्म किं वा नास्तीति तत्राभिप्रायः, तत्र वेदपदानामर्थं न जानासि चशब्दात् युक्तिं भावार्थं च तेषां हि वेदपदानामयमेकवाक्यतया व्यवस्थितोऽर्थः - इह त्रिवि धानि वेदवाक्यानि कानिचिद् विधिवादपराणि कानिचिदर्थवादप्रधानानि अपराणि स्वनुवादपराणि, तत्र 'अग्निहोत्रं जुहुया ★ स्वर्गकाम' इत्यादीनि विधिवादपराणि अर्थवादस्तु द्विधा स्तुत्यर्थवादो निन्दार्थवादश्च तत्र स्तुत्यर्थवादप्रधानानि यथा 'स सर्ववित् यस्यैषा महिमा भुवि आदित्ये, ब्रह्मपुरे ह्येष व्योम्नि आत्मा सुप्रतिष्ठितस्तमक्षरं वेदयते, अथ यस्तु सर्वज्ञः स सर्वधित् सर्वमेवाविश' इत्यादि, निन्दार्थवादप्रधानानि यथा 'एष कः प्रथमो यज्ञो १, योऽग्निष्टोमः, योऽन्नेन अनिष्ट्वा अन्येन यजते स गर्त्तमभ्यपत' दित्यादि, अत्र पशुमेधादीनां प्रथमं करणं निन्द्यते इत्ययं निन्दार्थवादः, 'द्वादश मासाः संवत्सरः | अग्निरुष्णोऽग्निर्हिमस्य भेषज' मित्यादीनि त्वनुवादप्रधानानि, लोके प्रसिद्धस्यैवार्थस्य एतैरनुवादात्, पुरुष एवेदं झिमित्यादीन्यपि पुरुषस्तुतिपराणि, यदिवा जात्यादिमदत्यागायाद्वैतभावनाप्रतिपादकानि न कर्म्मसत्ताप्रतिषेधकानि, इत्थं चैतदङ्गीकर्त्तव्यं, न खल्वकर्म्मण आत्मनः कर्तृत्वोपपत्तिः, एकान्तशुद्धतया प्रवृत्तिनिबन्धनाभावात्, न च वाच्यं शरीरवान् सब्वीशान आरम्भ उपपत्तिमान्, स्वशरीरारम्भेऽपि तस्योक दोषानतिक्रमात्, अथ त्रूषे- अन्यस्तत्शरीरारम्भाय व्याप्रियते, स च शरीरवान् सत्तारम्भक इति, तदप्यसम्यकू, तत्रापि विकल्पद्वयप्रवृत्तेः, स ह्यन्यस्तशरीरारम्भाय व्याप्रियते
For Pevato & Personal Use Only
~65~
कर्मवादे
द्वितीयो
गणधरः
॥१२१॥