SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H [भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३ अध्ययनं [–], निर्युक्ति: [६०० ], वि० भा०गाथा [-], भाष्यं [१२६], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः आवश्यके श्रीमलयसमवसरणे ॥३१९॥ स्वात्, ये कर्म्मकरणचे सति ग्राह्यग्राहकरूपे ते विद्यमानप्रयोजके, यथा संदेशायःपिण्डौ, कर्मकरणरूपाणि च सन्ति प्राह्यग्राहकरूपाणि रूपादीन्द्रियाणि ततो विद्यमानप्रयोजकानीति, न चेन्द्रियाणां स्वत उपलम्भकत्वं येन रूपादिग्रहणं | प्रति तेषां कर्तृत्वमेवोपगम्येत न करणत्वं, अचेतनत्वेन स्वत उपलम्भकृत्वायोगात्, तथा नात्र प्रयोगः- यदचेतनं तन्नोपलब्ध यथा घटः, अचेतनानि च द्रव्येन्द्रियाणि न चायमसिद्धो हेतुः, यतः खलु द्रव्येन्द्रियाणि निर्वृत्त्युपकरणरूपाणि निर्वृत्त्युपकरणे च पुद्गलमये, पुद्गलमयं च सर्वमचेतनं, पुद्गलानां काठिन्याबोधरूपतया चैतन्यं प्रति धर्मत्वायोगात्, धर्मानुरूपो हि सर्वत्रापि धर्मी, यथा काठिन्यं प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्म्मधर्मिभावो |भवेत् ततः काठिन्यजलयोरपि स भवेत्, न च भवति, तस्मादचेतनाः पुद्गलाः, तथा चोक्तम् - "बोहसभावममुत्तं विसयपरिच्छेयगं च चेयन्नं । चिवरीयसहावाणि य भूयाणि जगप्पसिद्धाणि ॥ १ ॥ ता धम्मिधम्मभावो कहमेएसिं अणभुवगमे य । अणुरुवत्ताभावे काठिन्नजलाण किं न भवे १ ॥ २ ॥ ( धर्मसं. ५०-५१ ) ततः स्वत उपलम्भकत्वाभावात् रूपादिग्रहणं प्रतीन्द्रियाणां करणभाव एव, न कर्त्तृभाव इति स्थितम् । अथवेदमनुमानं - सभोक्तृकमिदं शरीरं भोग्यत्वात्, स्थालस्थितोदनवत्, भोग्यता च शरीरस्य जीवन तथा निवसता भुज्यमानत्वात्, द्वयोरपि च प्रयोगयोः साध्यसाधनप्रतिबन्धः, प्रतिबन्धसिद्धिर्दृष्टान्ते प्रत्यक्षप्रमाणसिद्धेति नोकलिङ्गलिङ्गिसम्बधाग्रहरूपदोषावकाशः, आगमगम्योऽप्येष जीवः, तथा चागमः - “ अणिदिग्रगुणं जीवं, दुन्नेयं मंसचक्खुणा । सिद्धा पस्संति सबन्नू, नाणसिद्धा य साहुणो ॥ १ ॥ " | (द०अ० ५ - ३४ मा . ) अत्र ज्ञानसिद्धाः साधवो भवस्थ केवलिनः, शेषं सुगमं, न चागमानां परस्परविरुद्धार्थतया सर्वेषामप्य For Pevato & Personal Use Only ~61~ जीवसिद्धी प्रथमगण धरः ॥३१९॥
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy