________________
आगम
(४०)
[भाग-5] "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३
अध्ययनं [-1, नियुक्ति: [६००], विभा गाथा [-], भाष्यं [१२६], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
EcccketSTA
न पुनरत्यन्तासतश्चैतन्यस्योत्पादनार्थ, तथाऽनभ्युपममात्,दोषकृताश्च विकारा मृतावस्थायां स्वयमेव निवृत्ता, ज्वरादेरदर्शनात् , ततः किं वैद्यौषधान्वेषणेनेति तदवस्थ एव पुनरुज्जीवनप्रसङ्गा, अपि च-कश्चिद्दोषाणामुपशमेऽप्यकमान्धियते, कश्चिञ्चातिदोषदुष्टत्वेऽपि जीवति, तदेतद्वन्मते कथमुपपत्तिमईति !, तथा च केचिहुवते-'दोषस्योपशमेऽप्यस्ति, मरणं कस्यचित् पुनः । जीवनं दोषदुष्टत्वेऽप्येतन्न स्याद् भवन्मते ॥१॥' अर्हतां तु शासने यावद् आयुःकर्म विजृम्भते तावद् | दोषैरतिपीडितोऽपि जीवति, आयुःकर्मक्षये च दोषाणामघाकृतावपि वियते, तन्न देहमात्रकारणं संवेदनं, अन्यच्च-देहः कारणं संवेदनस्व सहकारिभूतं वा उपादानभूतं वा !, यदि सहकारिभूतं तदिष्यत एव, देहस्यापि क्षयोपशमे हेतुतया कथंचिद्विज्ञानहेतुत्वाम्युपगमात् , अथोपादानभूतं तद्युक्त, उपादानं हि तत् तस्य यद्विकारेण यस्य विकारो, यथा मृद्
घटस्य, न च देहविकारेणैव विकारः संवेदनस्य, देहविकाराभावेऽपि भयशोकादिना तद्विकारदर्शनात्, न तद् देह द्र दाउपादानं संवेदनस्य, तथा च बदन्त्युपादानलक्षणमपरे-"अविकृत्य हि यद् वस्तु, यः पदार्थो विकायते । उपादानं न*
तत्तस्य, युक्तं गोगवयादिवत् ॥१॥" एतेन यदुच्यते-मातापितॄचैतन्यं सुतचैतन्यस्योपादानमिति, तदपि प्रतिक्षितं, तत्रापि तद्विकारे विकारित्वं तदविकारे चाविकारित्वमिति नियमादर्शनात्, अन्यच्च-यद्यस्योपादानं तत्तस्मादभेदेन व्यवस्थित, यथा मृदो घटा, मातापितृतन्यं च सुतचैतन्यस्योपादानं ततः सुतचैतन्यं मातापितॄचैतन्यादभेदेन व्यवतिष्ठते, तस्माद् यत्किश्चिदेतत् , तन्न भूतधर्मों भूतकार्य वा चैतन्यं, किं त्वात्मनो गुण इति, तद्गुणस्य प्रत्यक्षसिद्धत्वात्प्रत्यक्षसिद्ध आत्मा, अनुमानसिद्धक्ष, तवानुमानमिदं रूपादीन्द्रियाणि विद्यमानप्रयोजकानि कर्मकरणत्वे सति ग्रााग्राहकरूप
दीप
CHECR-04-24-04
अनुक्रम
-C..
JanEttacntion merman
~60~