________________
आगम
(४०)
प्रत
सूत्रांक [-]
दीप
अनुक्रम
H
[भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३
अध्ययनं [–], निर्युक्ति: [६०० ], वि० भा०गाथा [-], भाष्यं [१२६], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः
आवश्यके
दनित्रयविकारारम्भकं यथा वह्निः काष्ठे, श्यामतामात्रमपि वह्निना कृतं काष्ठे बह्निनिवृत्तौ न निवर्त्तते, किञ्चित् नित्रश्रीमलय-विकारारम्भकं यथा स एवाग्निः सुवर्णे, तथाहि--अग्निना कृता सुवर्णे द्रवता अग्निनिवृत्ती निवर्त्तते तत्र वाय्त्रा समवसरणे | दयो दोषा निवर्च्यविकारारम्भका श्चिकित्सा प्रयोगदर्शनात्, यदि पुनरनिवर्त्स्यविकारारम्भका भवेयुस्तर्हि न तद्विकारनिवर्त्तनाय चिकित्सा विधीयेत, वैफल्यप्रसङ्गात् न च वाच्यं मरणात् प्राक्तनदोषा निवर्च्यविकारारम्भका मरणकाले स्वनिवर्त्स्यविकारारम्भका इति, एकस्य एकत्रैव निवनिवर्त्स्य विकारारम्भकत्वायोगात्, नह्येकमेव तत्रैव निवयविकारम्भकमनिवर्त्त्यविकारारम्भकं च भवितुमर्हति तथा अदर्शनात्, ननु द्विविधो हि व्याधिः – साध्योऽसाध्यश्च तत्र | साध्यो निवर्त्यः, तमेव चाधिकृत्य चिकित्सा फलवती, असाध्योऽनिवर्त्तनीयः, न च साध्यासाध्य भेदेन व्याधिद्वैविध्यममतीतं, सकललोकप्रसिद्धत्वाद्, व्याधिश्च दोषवैषम्यकृतः, ततः कथं दोषाणां निवर्त्यनिवर्त्त्यविकारारम्भकत्वमनुपपन्नमिति, तदप्यसत्, भवन्मतेनासाध्यव्याभ्यनुपपत्तेः, तथाहि असाध्यता व्याधेः क्वचिदायुःक्षयात्, तथाहि तस्मि शेव व्याधी समानेऽप्योषधवैद्यसम्पर्के कश्चिन्त्रियते कश्चिन, कचित्पुनः प्रतिकूलक र्मोदयात्, प्रतिकूलकर्मोदयजनितो हि चित्रादिव्याधिरौषघसहस्रैरपि कश्चिदसाध्यो भवति एतच द्विविधमपि व्याधेरसाध्यत्वमर्हतामेव मते सङ्गच्छते, न भवतो भूतमात्रतत्त्ववेदिनः, क्वचित्पुनरसाध्यो व्याधिर्दोष कृतविकारनिवर्त्तन समर्थस्योषधस्याभावात् वैद्यस्य वा, वैद्यी| पधसम्पर्काभावे हि व्याधिः प्रसर्पन् सकलमप्यायुरुपक्रमते, ननु वैद्यौषध सम्पर्काभावादेवास्माकमपि पुनरुज्जीवनं न भवि ध्यति, नहि तदस्ति किञ्चित् औषधं वैद्यो वा यत् पुनरुज्जीवयति, तदप्ययुकं, वैद्यौषधे हि दोषविकारनिवर्त्तनार्थ मिष्वेते,
॥ ३१८ ॥
For Pivato & Personal Use Only
~59~
जीवसिद्धिः
॥ ११८ ॥