________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप अनुक्रम
H
[भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३
अध्ययनं [–], निर्युक्तिः [ ६०० ], वि०भा०गाथा [-], भाष्यं [ १२६], मूलं [-- /गाथा -] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः
Jan Etonation
प्राणिमयं भवति, परिणतिविशेषसद्भावाभावादिति चेत्, ननु सोऽपिं परिणतिविशेषसद्भावः सर्वत्रापि कस्मान्न भवति ? | सोऽपि हि भूतमात्रनिमित्तक एव, ततः कथं तस्यापि कचित्कदाचिद्भावः १, अन्यच स किंरूपः परिणतिविशेष इति ४ वाक्यम् १, कठिनत्वादिरूप इति चेद, तथाहि — काष्ठादिषु दृश्यन्ते घुणादिजन्तवो जायमानास्ततो यत्र कठिनत्वादिविशेषस्तत्प्राणिमयं न शेषमिति, तदध्यसत्, व्यभिचारदर्शनात्, तथाहि - अविशिष्टेऽपि कठिनत्वादिविशेषे कचिबति, क्वचित्कठिनत्वादिविशेषमन्तरेणापि संस्वेदजा नभसि च संमूछिमा जायन्ते किञ्च समानयोनिका अपि विचित्रवर्णसंस्थानाः प्राणिनो दृश्यन्ते, तथा गोमयाद्येकयोनिसम्भविनोऽपि केचिन्नीलतनवोऽपरे पीतकाया अन्ये विचित्रवर्णाः, संस्थानमध्येतेषां परस्परं विभिन्नं, तद्यदि भूतमात्रनिमित्तं चैतन्यं तत एकयोनिकाः सर्वेऽप्येकवर्णसंस्थाना भवेयुर्न च भवन्ति, तस्मादात्मान एव तत्तत्कर्मवशात् तथा तथोत्पद्यन्ते इति ॥ स्यादेतत्-आगच्छन् गच्छत् वा आत्मा नोपलभ्यते, केवलं देहे सति संवेदनगुपलभामहे, देहाभावे च भस्मावस्थायां न, तस्मान्नात्मा, किन्तु संवेदनमात्रमेवैकं तच देहकार्य देह एव च समाश्रितं, कुडये चित्रवत्, नहि चित्रं कुरुयविरहितमवतिष्ठते, नापि कुड्यान्तरं सङ्कामति, आगतं वा कुख्यान्तरात्, किंतु कुड्य एवोत्पन्नं कुरुप एव च विलीयते, एवं संवेदनमपि तदप्यसत्, आत्मा हि स्वरूपेणामूर्त्तः, आन्तरमपि शरीरमतिसूक्ष्मत्वान्न चक्षुर्विषयः, तदुक्तमन्यैरपि - "अन्तरा भवदेहोऽपि, सूक्ष्मत्वा| नोपलभ्यते । निष्क्रामन् प्रविशन् वापि, नाभावोऽनीक्षणादपि ॥ १ ॥” तत आन्तरशरीरयुक्तोऽप्यात्मा आगच्छन् गच्छन् वा नोपलभ्यते, लिङ्गतस्तूपलभ्यते, तथाहि-- कृमेरपि जन्तोस्तत्कालोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रति
For Pevato & Personal Use Only
~54~