________________
आगम
(४०)
[भाग-5] "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३
अध्ययनं [-1, नियुक्ति: [६००], विभा गाथा [-], भाष्यं [१२६], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सत्रांक
दीप
आवश्यकेदाणामान्तरं तदयुक्त, परिणामान्तरस्यापि भूतस्वभावतया भूतवत् व्यञ्जकत्वस्योपपत्ते वारकत्वस्य, अथान्यदेव भूताति- जीवसिभीमलय- रिक्तं किश्चित् तदतीवासमीचीन, भूतातिरिक्ताभ्युपगमे 'चत्वार्येव पृथिव्यादीनि भूतानि तत्व'मिति तत्त्वसवाव्याघातसमवसरणे प्रसङ्गात् , अपि च-इदं चैतन्यं प्रत्येक वा भूतानां धर्मः समुदायस्य वा?, न तावत्प्रत्येकमनुपलम्भात् , नहि प्रतिपरमाणु
५ संवेदनमुपलभ्यते, अपि च यदि प्रतिपरमाणु संवेदनं भवेत्तर्हि पुरुषसहनचैतन्यवृन्दमिव परस्परं भिन्नस्वभावमिति नैकरूपं ॥३१५॥ |भवेत् , अथ चैकरूपमुपलभ्यते, अहं पश्यामि अहं करोमीत्येवं सकलशरीराधिष्ठानादेकरूपतयाऽनुभवात्, अथ समु
दायस्य धर्मस्तदप्यसत् , प्रत्येकमभावात् , नहि प्रत्येकं यदसत्तत्समुदाये भवति, यथा रेणुषु तैलं, स्यादेतद्-यद्वत् मद्यानेषु प्रत्येकं मदशकिरदृष्टापि सगुदायऽपि भवन्ती दृश्यते तद्वचैतन्यमपि भविष्यति को दोषः, तदसम्यक्, प्रत्ये। कमपि मद्यानेषु मदशक्त्यनुयायिमाधुर्यादिगुणदर्शनात् , तथाहि-दृश्यते माधुर्यमिक्षुरसे धातकीपुष्पेषु च मनाक् विकलतोत्पादकत्वादि, न चैवं चैतन्य सामान्यतोऽपि भूतेषु प्रत्येकमुपलभ्यते, ततः कथं समुदाये तद्भवितुमईति !, मा प्रापत्सर्वत्र सर्वस्य भावप्रसक्त्याऽतिप्रसङ्गः, किञ्चन्यदि चैतन्यं भूतधर्मत्वेन प्रतिपः ततोऽवश्यमस्यानुरूपो धर्मी प्रतिपत्तव्यः, आनुरूप्याभावे जतुकाठिन्ययोरिव परस्परं धर्मधर्मिभावानुपपत्तेः, न च चैतन्यं भूतानुरूपो धर्मी, वैलक्षण्यात्, तथाहिचैतन्य बोधस्वरूपममूर्त च, भूतानि च तद्विलक्षणानि, ततः कथं परस्परमेषां धर्मधर्मिभावसंभवः, न च चैतन्यमिदं PM भूतानां कार्य, अत्यन्तविलक्षणतया कार्यकारणभावस्थाप्ययोगात् , तथा चोक्तम्-"काठिन्याबोधरूपाणि, भूताम्यध्यक्षसिद्धितःचेतना च न तद्रूपा, सा कथं तत्फलं भवेत् १॥१॥" अपि च-यदिभूतकार्य चैतन्यं तर्हि किं न सकलमपि जगत्
अनुक्रम
Janetitraryaru
~53.