________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
[भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३
अध्ययनं [–], निर्युक्तिः [६०० ], वि० भा०गाथा [ - ], भाष्यं [१२६], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः
साम्प्रतविज्ञानोपयोगविनितत्वात्, अथवा एवं व्याख्या-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्ताम्येवानु विनश्यतीत्येतन्न, यतः प्रेत्यसंज्ञाऽस्ति-परलोक संज्ञास्ति ॥ यदप्युक्तं - नासौ प्रत्यक्षेण परिगृह्यते इति तदप्यसमीचीनम्, आत्मनः प्रत्यक्षसिद्धत्वात् तद्गुणस्य ज्ञानस्य स्वसंवेदनप्रमाणसिद्धत्वात्, तथाहि स्वसंविदिता एवावम हे हापायादयः उत्पद्यन्ते व्ययन्ते वा, ततस्तद्गुणस्य स्वसंविदितत्वात्सिद्धमात्मनः प्रत्यक्षत्वं, अथ नवीथा भूतगुणश्चैतन्यं, तथा च वेदेऽप्युक्तम्, 'एतेभ्यो भूतेभ्यः समुत्थायेत्यादि, ततः कथं ज्ञानस्य स्वसंविदितत्वे आत्मनः प्रत्यक्षत्वं ?, ज्ञानस्यात्मगुणत्वाभावात्, तदयुक्तं, भूतगुणत्वे सति पृथिव्याः काठिन्यस्येव सर्वत्र सर्वदा चोपलम्भप्रसङ्गात् न च सर्वत्र सर्वदा चोपलभ्यते चैतन्यं, लोष्ठाद मृतावस्थायां चानुपलम्भात्, अथ तत्रापि चैतन्यमस्ति केवलं शक्तिरूपेण ततो नोपलभ्यते, तदसम्यक्, विकल्पद्वयान विक्रमात्, | सा हि शक्तिश्चैतन्याद्विलक्षणा उत चैतन्यमेव ?, यदि विलक्षणा ततः कथमुच्यते शक्तिरूपेण चैतन्यमस्ति, नहि पटे विद्यमाने पटरूपेण घटस्तिष्ठतीति वक्तुं शक्यं, तथा चाहान्योऽपि - " रूपान्तरेण यदि तत्तदेवास्तीति मा रटीः । चैतन्यादन्यरूपस्य भावे तद्विद्यते कथम् १ ॥ १ ॥ अथ द्वितीयः पक्षस्तर्हि चैतन्यमेव सा, कथमनुपलम्भः १, आवृतत्वादनुपलम्भ इति चेत्, नन्वावृतिरावरणं तचावरणं किं भूतानां विवक्षितपरिणामाभाव उत परिणामान्तरं आहोस्विदन्यदेव भूतातिरिक्तं किञ्चित् १ तत्र न तावद्विवक्षित परिणामाभात्रः, एकान्ततुच्छरूपतया तस्यावारकत्वायोगात्, अन्यथा | तस्याप्यतुच्छ रूपतया भावरूपतापत्तिः, भावत्वे च पृथिव्यादीनामन्यतमो भावो भवेत् 'पृधिव्यादीन्येव भूतानि तस्व' मिति वचनात् पृथिव्यादीनि च भूतानि चैवन्यस्य व्यञ्जकानि नावारकाणीति कथमावारकत्वं तस्योपपत्तिमत् ?, अथ परि
Jan Education mernationa
For Pevato & Personal Use Only
~52~