SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H [भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३ अध्ययनं [–], निर्युक्तिः [६०० ], वि० भा०गाथा [ - ], भाष्यं [१२६], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः आवश्यके श्रीमलयसमवसरणे ॥३१४॥ नासौ प्रत्यक्षेण परिगृह्यते, अतीन्द्रियत्वात् नाप्यनुमानेन, यतस्तलिङ्गलिङ्गिसम्बन्धपूर्वकं न चात्र लिङ्गस्य लिङ्गिना सह सम्बन्धः प्रत्यक्षगम्यो, लिङ्गिनोऽतीन्द्रियत्वात्, नाप्यनुमानगम्योऽनवस्थाप्रस केः, तदपि हि लिङ्ग लिङ्गिसम्बन्धग्रहणपूर्वकं तत्रापि चेयमेव वार्चा इत्यनवस्थानुषङ्गः । नाभ्यागमगम्यः, परस्परविरुद्धार्थतया तेषानागमानां प्रमाणत्वाभावात्, | तथाहि — केचिदेवमाहुः - एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे । वृकपदं पश्य, वद्वदन्त्यवहुश्रुताः ॥ १ ॥ इत्यादि, अपरे प्राहु:--" न रूपं भिक्षवः पुद्गला" इत्यादि, पुनले रूपं निषेधयन्ति, अमूर्त आत्मेत्यर्थः, अन्ये पुनरेवं 'अकर्त्ता निर्गुणो भोका' इत्यादि, अपरे एवं – “स वै अयमात्मा ज्ञानमय' इत्यादि, नचैते सर्व एव प्रमाणं, परस्परविरोधेन, एकार्थाभिघायिपरस्परविरुद्धवाक्यपु रुषव्रातवत्, अतो न विद्मः - किमस्ति नास्तीत्ययं तवाभिप्रायः, तत्र वेदपदानां चार्थं न जानासि चशब्दात् युद्धिं हृदयं च, तथाहि —-वेदपदानामयमर्थः -- विज्ञानघन एवेति ज्ञानोपयो गदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात् आत्मा विज्ञानघन', प्रतिप्रदेशमनन्तविज्ञानपर्यायसङ्घातात्मकत्वाद्वा विज्ञा नघनः, एवशब्दोऽवधारणे विज्ञानघनादनन्यत्वात् विज्ञानघन एव, एतेभ्यो भूतेभ्यः – क्षित्युदकादिभ्यः समुत्थाय ---- कथश्चिदुत्पद्येति, घटविज्ञानपरिणतो हि आत्मा घटाद् भवति, तद्विज्ञानक्षयोपशमस्य तत्सापेक्षत्वाद्, अन्यथा निरालम्ब| नववा तस्य मिथ्यात्वप्रसक्तेः, एवं सर्वत्र भावनीयं तत उक्तं- तेभ्यः समुत्थाय कथचिदुत्पद्येति, पुनस्तान्येव-भूतानि 'अनु विनश्यति' तेषु विवक्षितेषु भूतेषु व्यवहितेषु अपगतेषु वा आत्मापि तेन विज्ञानघनात्मना उपरमतेऽन्यविज्ञानात्मना उत्पद्यते, यदिवा सामान्यचैतन्यरूपतयाऽवतिष्ठते इति, न प्रेत्य संज्ञाऽस्ति न प्राकनी घटादिविज्ञानसंज्ञाऽवतिष्ठते, For Pato & Personal Use Only ~51~ जीवसि द्धिः ॥३१४॥३
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy