________________
आगम
(४०)
[भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३
अध्ययनं [-], नियुक्ति: [५७०-५७१], वि०भा०गाथा -1, भाष्यं [११९...], मूलं -/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
गणहर आहार अणुत्तरा य जाव वण-चकि-वासु-बला। मंडलिया जा हीणा छहाणगया भवे सेसी १७॥k
तीर्थकररूपात् गणधराणां रूपमनन्तगुणहीनं भवति, तीर्थकरेभ्यो गणधरा रूपेणानन्तगुणहीना भवन्तीति भावः, गणधरेन्यो रूपेण खलु आहारकदेहा अनन्तगुणहीनाः आहारकदेहेभ्यो रूपेणानन्तगुणहीना अनुत्तरा:- अनुत्तरवैमानिकाः, एवं अवेयकाच्युतारणप्राणतानतसहस्रारमहाशुक्रलान्तकब्रह्मलोकमाहेन्द्रसनत्कुमारेशानसौधर्मभवनवासिज्योतिकन्यन्तरचक्रवर्तिवासुदेवबलदेवमहामाण्डलिकानामनन्तरानन्तरापेक्षया रूपेणानन्तगुणहानिरवगन्तव्या, तथा चाह'जाव वणचक्किवासुबला मंडलिया जा हीण'त्ति यावद् व्यन्तरचक्रवर्तिवासुदेववलदेवमाण्डलिकाः तावदनम्तगुणहीनाः, 'छट्ठाणगया भवे सेस'ति शेषा-राजानो जनपदलोकाश्च षट्स्थानगता भवन्ति, अनन्तभागहीना वा असक्वेयभागहीना वा सहयभागहीना वा सोयगुणहीना वा असोयगुणहीना वा अनन्तगुणहीना वा इति । उत्कृष्टरूपतायां भगवतः| प्रतिपादयितुं प्रकान्तायामिदं प्रासङ्गिकं रूपसौन्दर्य निबन्धनं संहननादि प्रतिपादयन्नाह
संघयण रूवं संठाण वन्नगइसत्तसारऊसासा । एमाइणुत्तराई हवंति नामोदया तस्स ॥ ५७१॥ संहनन-वज्रर्षभनाराचं रूपमुक्तलक्षणं संस्थान-समचतुरस्त्रं वर्णो देहच्छाया गतिः गमनं सत्त्वं-वीर्यान्तरायकर्मयोपशमादिजन्य आत्मपरिणामः, सारो द्विधा बाह्य आन्तरश्च, बायो गुरुत्वं आन्तरो ज्ञानादि, उकासः प्रतीतः,# तत एतेषां पदानां इन्दः एवमादीनि वस्तूनि, आदिशब्दात् रुधिरं गोक्षीराभमित्यादिपरिग्रहः, अनुत्तराणि तस्य भग-18
दीप
अनुक्रम
~36~