SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-5] "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं [१], नियुक्ति: [८१४], विभा गाथा -], भाष्यं [१५०...], मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक प्रतिपद्यते, व्यवहारनयापेक्षयेत्यमुच्यते, नतु निश्रयता, केवलस्य सम्यक्त्वसामायिकस्य श्रुतसामाधिकस्य वा प्रतिपत्तेरसम्भवात् , तयोः परस्परमनुगतत्वात् , तत एवं प्रतिपत्तव्यम्-कदाचित्सम्यक्वश्रुतसामायिके प्रतिपद्यते कदाचिद्देशविरतिं कदाचित्सर्वविरतिमिति, इयमत्र भावना-भव्याश्चतुर्णामपि सामायिकानां यथायोगं प्रतिपद्यमानका भजनया, पूर्वप्रतिप भास्तु चतुर्णामपि सदैव, एवं संश्यपि चतुणां सामायिकानां कदाचित्प्रतिपद्यते, तथा चाह-सन्नि पडिवजे इति अपिशब्दस्य हगम्यमानत्वात् संश्यपि चतुर्णा सामायिकानामन्यतरत् विवक्षिते काले प्रतिपद्यते, भावना प्रागिव, पूर्वप्रतिपनकास्तु संज्ञिनश्चतुर्णामपि सामायिकानां यथायोग सदैव लभ्यन्ते, 'पडिसेहो पुण अस्सन्निमीसए' इति (प्रतिषेधः पुनः) पूर्वप्रतिपन्नान् प्रतिपद्यमानकांश्चाश्रित्य असंज्ञिमिश्रके-सिद्धे, यतोऽसौ न संज्ञी नाप्यसंज्ञी न भव्यो वायभव्यः अतो मिश्रा, उपलक्षणमेतत्, अभव्ये च चतुर्णामपि सामायिकानां प्रतिषेधः, पुनःशब्दो विशेषणार्थः, स चैतद्विशिनष्टि-असंज्ञी सास्वादनसम्यक्तत्वमाश्रित्य जन्मकाले सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपनो भवेत् , भवस्थकेवली मिश्रः सम्यक्त्व-* चारित्रसामायिकयोः सिद्धो मिश्रः सम्यक्त्वसामायिकस्य पूर्वप्रतिपक्षो नियमादस्तीति ॥ साम्प्रतमुच्छासद्वारं दृष्टिद्वारं च प्रतिपादयन्नाह- . ऊसासग सासग भीसय पडिसेह दुविह पडिवन्नो । दिट्ठीइ दो नया खलु ववहारो निच्छओ चेव ।। ८१४॥ उच्छसितीत्युच्छामकः, निःश्वसितीति निःश्वासका, आनप्राणपर्याधिपरिनिष्पन्न इत्यर्थः, स चतुर्णामपि सामायिकानां प्रतिपद्यमानकः सम्भवति, कदाचिद्भवति कदाचिन्नेति भावः, पूर्वप्रतिपन्नकस्तु नियमादस्त्येवेति वाक्यशेषः, 'मीसे पडि दीप अनुक्रम ~306~
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy