SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-5] "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं [१], नियुक्ति: [८११], विभा गाथा -], भाष्यं [१५०...], मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०], मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक विंशतिसागरोपममानस्य कालचक्रस्व द्वौ मूलभेदी-उत्सप्पिणीच अवसर्पिणीच, एकैका पविभागा, तत्रावसपिण्यां सुषम-1 सुषमाख्यःप्रवाहतश्चतुःसागरोपमकोटीकोटीप्रमाणः प्रथमः कालविभागः, द्वितीयः सुषमाख्यखिसागरोपमकोटीकोटीमानः, दातृतीयः सुषमदुष्षमाख्यः सागरोपमद्वयकोटीकोटीमानः, चतुर्थों दुष्षमसुषमाख्यो द्वाचत्वारिंशद्वर्षसहस्रन्यूनसागरोपमको टीकोटीमानः, पञ्चमो दुष्षमाख्य एकविंशतिवर्षसहस्रमानः, षष्ठो दुष्षमदुष्षमाख्यः, सोऽप्येकविंशतिवर्षसहस्रमानः, अय४.मेव चोत्क्रमेणोत्सर्पिण्यामपि यथोत्तरसङ्ख्यः कालक्रमो वेदितव्यः, अवस्थितश्चतुर्विधस्तद्यथा-सुषमसुषमासुखप्रतिभागः सुषमासुखप्रतिभागः सुषमदुष्पमासुखप्रतिभागः दुष्षमसुषमासुखप्रतिभागश्च, तत्र प्रथमो देवकुरूत्तरकुरुषु, द्वितीयो हरिवर्षरम्यंकयोः, तृतीयो हैमवतहैरण्यवतयोः, चतुर्थो महाविदेहेतु, तत्रोत्सपिण्यामवसर्पिण्यां च प्रत्येकं पड्डिधेऽपि कालविभागे सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः प्रतिपत्तिः सम्भवति, प्रतिपद्यमानकः सम्भवतीति भावः, सच प्रतिपद्यमानकः सुषमसुषमादिषु देशन्यूनपूर्वकोट्यायुःशेष एवं प्रतिपद्यते, नाधिकायुःशेषः, उक्तं च चूर्णी-“सुसमसुसमादिसु पुवकोडिदेसूणाउसेसा पडिवजति"त्ति, पूर्वप्रतिपन्नकास्त्वेतयोद्धयोरपि सामायिकयोविद्यन्ते एव, तथा विरतिसमग्रचारित्रलक्षणां विरताविरति-देशचारित्रात्मिकां प्रतिपद्यते कश्चिद् द्वयोः कालयोस्त्रिषु वा कालविभागेषु, इयमत्र भावना-उत्सपिण्यां द्वयोः दुष्षमसुषमायां सुषमदुषमायां च, अवसर्पिण्यां त्रिषु, तद्यथा-सुषमदुष्षमायां दुष्पमसुपमायां दुष्षमायां च, विवक्षिते काले सर्वविरतिसामायिकस्य देशविरतिसामायिकस्य च प्रतिपद्यमानकः कदाचिद्भवति कदाचिन्न, 181पूर्वप्रतिपन्नस्तु विद्यत एव, 'दोसु तिस वावी'त्यत्रापिशब्दः सम्भावने, स चैतत् सम्भाव यति-संहरणं प्रतीत्य पूर्वपतिप दीप अनुक्रम *1440% ~304
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy