SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H [भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३ अध्ययनं [१], निर्युक्तिः [८१०], वि०भा०गाथा [२७०], भाष्यं [ १५०...], मूल [- /गाथा - ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः पुद्दाहआसु महादिसासु पडिवजमाणओ होइ । पुचपडिवन्नओ पुण अनयरीए दिसाए उ ॥ ८१० ॥ पूर्वादिकासु क्षेत्रतो महादिक्षु विवक्षिते काले सर्वेषामपि सामायिकानां प्रतिपद्यमानको भवति, न न भवति, तत्सम्भवस्त्वस्ति, न पुनर्भवत्येव, कदाचित्तस्य तास्वभवनात् पूर्वप्रतिपन्नः पुनश्चतुर्णामपि सामायिकानामन्यतरस्यां दिशि भवत्येव, पुनःशब्दस्यैव कारार्थत्वात्, न पुनर्न भवति, एतदपि सामान्येनोक्तं, विशेषतस्त्वेवमवगन्तव्यम्-त्रयाणां सम्यक्त्वसामायिक श्रुतसामायिक देश विरतिसामायिकानां चतसृष्वपि पूर्वादिकासु महादिक्षु नियमेन पूर्वप्रतिपन्नकोऽस्ति, सर्वविरति सामायिकस्य तु पूर्वापरदिशोर्नियमेन, दक्षिणोत्तरयोस्तु भजनया, एकान्तदुष्पमादिकाले भरतैरावतेषु सर्वविरतेरुच्छेदाद, विदिक्षु पुनश्चतसृष्वपि तथा ऊर्ध्वाधोदिग्द्वये च चतुर्णामपि सामायिकानां न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, तास्वेकप्रादेशिकत्वेन चतुष्प्रादेशिकत्वेन च जीवावगाहनानामसम्भवात्, स्पर्शनामात्रं भवेदपि पुनः तथा चाह भाष्यकारः“छिन्नावलिरुअगा गिइदिसामु सामाइयं न जं तासु । सुद्धासु नावगाहइ जीवो ताओ पुण फुसिजा ॥१॥” (वि. २७०) तापक्षेत्रप्रज्ञापक दिशावधिकृत्याह- अट्टमु चरण्ह नियमा पुवपवनो र दोसु दुण्हेव । दुण्ह उ पुवपवन्नो सिअ ननो तावपद्मवए ॥२॥ तापक्षेत्रविषये प्रज्ञापकविषये च पुनरष्टसु पूर्वादिकासु दिक्षु चतुर्णामपि समायिकानां नियमात् पूर्वप्रतिपन्नोऽस्ति, प्रतिपद्यमानस्तु भाज्यः कदाचिद्भवति कदाचिन्नेति तथा द्वयोः- ऊर्ध्वाघोरूपयोद्दिशोः द्वयोः सम्यक्त्वसामायिक श्रुतसामायिकयोरेवं पूर्वप्रतिपन्नो नियमादस्ति, प्रतिपद्यमानकस्तु भाज्य इत्यर्थः, 'दोण्ह उ' इत्यादि, द्वयोः पुनः देशविरतिसामायिकसर्वविरतिसामायिकयोरूर्ध्वाधोदिशोः स्यात्-भजनया पूर्वप्रतिपन्नः कदाचिद्भवति कदाचिन्नेति, अन्यः पुनः प्रतिपद्य For Pavato & Personal Use Only ~302~
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy