________________
आगम
(४०)
[भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं [१], नियुक्ति: [७९४], विभा गाथा [२६४९], भाज्यं [१४९...], मूलं [F /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
द भिमतं द्रव्यं, कारणकार्यरूपविकलत्वात् , खरविषाणवत , अस्तित्वं हि नामार्थक्रियाकारित्वं, 'यदेवार्थक्रियाकारि तदेव
परमार्थस'दिति वचनात्, सर्वा अर्थक्रियाकारिता कारणकार्यरूपत्वेन ब्याप्ता, द्रव्यस्य कारणकार्यरूपविकलस्वार्थक्रियाया अदर्शनात्, किं हि तदस्ति वस्तु यदकारणरूपमकार्यरूपं वा सत् अर्धक्रियां कुर्यात् !, ततः कारणकार्यरूपत्वं व्यावतमानं स्वव्याप्यमप्यस्तित्वं निवर्त्तयतीति व्यापकानुपलब्धिरेषा, तस्माद् गुण एव समभावलक्षणः सामायिकमिति । एवं पर्यायार्थिकेन स्वमते प्रतिपादिते द्रव्यार्थिक आह
जं जं जे जे भावे परिणमइ पओग-वीससा दई । तं तह जाणेइ जिणो अपज्जवे जाणणा नस्थि ॥ ७९४ ॥ &ा यत् यत् आत्ममृदादिकं वस्तु यान् यान् भावान्-पर्यायान् विज्ञानघटादीन् परिणमति-तदात्वेन प्रतिपद्यते प्रयो
गतो विससातो वा, तत्र प्रयोगश्चेतनावतो व्यापारः, विनसा स्वभावः, तत्सर्वमुत्प्रेक्षितपर्याय द्रव्यमेव, उत्फणविफणत्व-12
कुंडलिकादिपर्यायसमन्वितसर्पद्रव्यवत् , तथाहि-न तत्र केचन उत्फगतादयः सर्पद्रव्यातिरिकाः पर्यायाः सन्ति, प्रमा-18 दाणेनानुपलब्धेः, गगनकुसुमस्य मुकुलितार्द्धमुकुलितत्वादिपर्यायवत् , तस्मात्तदेव द्रव्यं, तत्र (च) परमार्थसदिति । किश्व-It
तत् द्रव्यं तथैव-अन्वयपर्यायोपसर्जनं जानाति-परिच्छिनत्ति जिनो-भगवान् केवली, कस्मात् पर्यायोपसर्जनं जानाति, जानतु पर्यायरहितमित्यत थाह-अपजवे जाणणानस्थित्ति' अपर्याय-पर्यायरहिते यतो जाणणा-परिज्ञा केवल्यादीनामपि & नास्ति, ततस्ते उत्प्रेक्षामात्रेण व्यवाहियन्ते, नतु परमार्थतः सन्ति, ततो द्रव्यमेव तात्तिकमिति जीव एवं सामायिकमिति ।
गाथार्थः। अथवा 'दबप्पभवा य गुणा' इत्यादि द्रव्याधिकनयमतेन व्याख्यायते, उत्पद्यन्ते ब्ययन्ते परिणमन्ति च यस्मात्
दीप
r ༔ ༔
अनुक्रम
मा.सू.७३
~288