SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-5] "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं [१], नियुक्ति: [७९५], विभा गाथा -], भाष्यं [१४९...], मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०], मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्राक द्वारं उपोद्घाते ॥४३३॥ दीप श्री आव-11गुणा एच, न द्रव्याणि, तस्मात्त एव तात्त्विका इति पर्यायाधिकेनोक्ते द्रव्याधिकः प्राह-द्रव्याण्येव च परमार्थतः सन्ति, सामायिके श्यक मल-इन गुणाः, यतो द्रव्यप्रभवा गुणाः, न गुणप्रभवानि द्रव्याणि, किमुक्तं भवति!-द्रव्यत्वेनोत्पादविगमपरिणामप्रकारस्तेषां किमिति या वृत्तो हातेषां गुणानामुत्पादो भवति, तेषां परोपादानत्वात् , नतु गुणेपूक्तप्रकारेण द्रव्याणां, तेषामपरोपादानत्वात् , तस्मात् तान्येव द्रव्याण्यन्तर्विशेषणीभूतगुणानि तात्त्विकानि, न गुणा इत्यात्मैव सामायिकम् , एवं पर्यायाधिकेन द्रव्याथिकेन च स्वमते उद्भाविते परस्परविरुद्धमताकर्णनतो व्याकुलीचित्तः सन् शिष्यः प्रश्नयति-भगवन् ! किमत्र तत्त्वमिति !, तत आचार्यः स्वसिद्धान्तमुपदर्शयति-जं जं जे जे भावे' गाथा, यत् यत् द्रव्यमात्ममृदादिकं यान् यान् भावान्पर्यायान् विज्ञानघटादीन् परिणमति-तादात्म्येन प्रतिपद्यते प्रयोगतो विश्रसातो वा 'तं तहे'ति-अगृहीतवीप्सोऽपि प्राग्वीप्सोपन्यासादयं शब्दो वीप्सां गमयति, तत् तत् तथा तथा परिणमन्तं जानाति जिनो-भगवान् केवली, यस्मादप्रापर्याये-पर्यायरहिते 'जाणणा' केवलज्ञानेनापि परिज्ञा नास्ति, तस्मात् द्रव्यपर्यायात्मकं वस्तु तात्त्विक, केवलिना तथा-18| वगतत्वाद्, अतः सामायिकभावपरिणत आत्मा सामायिकमिति स्थितं । व्याख्यातं किमिति द्वारं, अधुना कतिविधमिति द्वारं व्याचिख्यासुराह-- सामाइयं च तिविहं समत्त सुंअंतहा चरितं च । दुविहं चेव चरितं अगारमणगारिअंचेव ॥ ७९५ ।।। सामायिक प्राग्निरूपितशब्दार्थ, चः पूरणे, त्रिविधं-त्रिभेद, तद्यथा-सम्यक्त्वम्, अत्रानुस्वारलोप आपत्वात्, श्रुतं | चारित्रं, सम्यक्त्वसामायिक श्रुतसामायिक चारित्रसामायिकमित्यर्थः, चशब्दः स्वगतानेकमेदप्रदर्शनार्थः, तत्र अनुक्रम 2 ॥४३३॥ ... आगम साक्षी-पाठ: रूपेण गाथा || ७९४ ॥ हारिभद्र-वृतौ || ७९५ || रुपेण अपि उक्तं, अब सा 'गाथा-व्याख्या' वृत्ति रूपेण प्रदर्शिता: ... अथ सामायिकस्य त्रिविध / चतुर्विध भेदानां परिचय आरभ्यते ~289
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy