________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम
H
[भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३
अध्ययनं [-] निर्युक्तिः [ ७८२-७८३], वि०भा०गाथा [२५८५-२५८७,२५९१], भाष्यं [ १४५], मूलं [- /गाथा - ]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः
श्री आव
श्यक मल
य० वृत्ती
उपोद्घाते
॥४२४॥
अतिशयविकलश्च भवान्, ततो मा भूस्त्रं निरतिशयः सन्नचेलः, उपदेशाद्धि गुरूणां कार्यसिद्धिर्न वेषचरितमात्रानुष्ठानात्, न खलु रोगी वैद्यस्य वेषं चरितं वाऽनुकुर्वन्नरोगी भवति, किन्तुपदेशात् आह व भाष्यकृत् - "अरहंता जमचेला तेणाचेलत्तणं जइ मयं ते । तो तत्रयणातोच्चिय निरतिसओ होहि माऽचेलो ॥ १ ॥ रोगी जोवएस करेइ वेज्जरस होयऽरोगी य । न उ बेसं चरिथं वा करेइ न य पण करेंतो ॥ २ ॥ तह जिणवेशाएसं कुण माणोऽवेड कम्मरोगातो । नउ तन्नेवत्थधरो तेसिं आएसमकरें तो ॥ ३ ॥” (वि. २५८५-७ ) अथोपदिशे भगवद्भि * जिनकल्पस्ततः सोऽस्माभिराश्रीयते, ननु यदि जिनोपदेशात्तस्याश्रयणं तत एतदपि जिनोपदेशात् प्रतिपत्तव्यं-ये उत्तमतिसंहननाः पूर्वविदः सातिशया गच्छे कृतपरिकर्माणस्ते जिनकल्पं प्रतिपद्यन्ते, न शेषाः उक्तं च- "उत्तमधिइसंघयणा पुवचिदोऽतिसयिणो सया कालं । जिणकप्पियादिकप्पं कयपरिकम्मा पवजंति ॥ १ ॥” (वि. २५९१) तथा व्यवच्छिन्नः सम्प्रति जिनकल्प इत्येतदपि, तथा चोक्तम् - "मणपरमोहिपुलाए आहारग खबग उसमे कप्पे । संजमतिय केवल सिज्झणा य जंबुम्मि वोच्छिना ॥ १ ॥” (वि. २५९३ ) ततः कथं भवतो जिनकल्पाश्रयणम् ?, अथ यथा तदुपदेशः क्रियते तथा तद्गतवेषचरितानुकारोऽपि तत्रेदं प्रष्टव्यं तद्गतवेषचरितानुकार्ये किं सर्वथा उत देशतः, तत्र यद्याद्यः पक्षः सोऽसम्भवी, तीर्थकृतामेव तीर्थकरगुणोपेतता, न प्राकृतगुणयुक्तानां युष्मादृशां तीर्थकरगुणाश्चेमे-निरुपमधृतिसंहनना | मतिश्रुतावधिमनःपर्यायज्ञानिनः सत्त्वसम्पन्ना अच्छिद्रपाणिपात्रा देवदानवैरप्यक्षोभ्याः सततमप्रमादिनो जितपरीपहाः, | ततस्ते वस्त्रपात्राद्युपकरणरहिता अपि न यथोक्तं दोषमा नुवन्तीति न कुर्वते वस्त्रादिग्रहणं, केवलमस्माभिः सवस्त्रो
For Pivato & Personal Use Only
~271~
वोटिकनिरास:
॥४२४॥