SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-5] “आवश्यक"- मूलसूत्र अध्ययनं , नियुक्ति: [७८२-७८३], वि०भा०गाथा [२५८१-२५८३,२५८६], भाष्यं [१४५], मूलं F /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक SECRECRECRUECACANCY धर्मः प्ररूपयितव्य इति अभिनिष्क्रमणकाले शक्रेण समर्पितमेकं देवदूयं प्रतिगृह्णन्ति, उक्तं च-"निरुवमधिइसंघयणा चउनाणाऽतिसयसत्तसंपण्णा । अच्छिद्दपाणिपत्ता जिणा जियपरीसहा सधे ॥१॥ तम्हा जहुत्तदोसे पायंति न वत्थपत्तरहियावि । तदसाहणंति तेसिं तो तग्गहणं न कुचंति ॥ २॥ तहवि गहिएगवत्था सवत्थतित्थोवएसणथंति । अभिनिक्खमंति सखे तम्मि चुएऽचेलया होंति ॥३॥" (वि. २५८१-३) ततः कथं तैः सह सर्वसाम्यं प्रतिपत्तुं शक्यम् । अन्यच्च-सर्वसाम्यप्रतिपत्तौ तीर्थकरैरिव न परोपदेशोऽपेक्षणीयः, नापि छद्मस्थैः सद्भिः परेभ्य उपदेष्टव्यं, न च शिष्यवों । दीक्षणीय इत्यापन्नस्तीर्थव्यवच्छेद इति नैप पक्षा, आह च-"न परोवएसवसया न य छउमस्था परोवएसपि । देति नय* सीसवग्गं दिक्खंति जिणा जहा सधे ॥१॥ तह सेसेहिवि सवं, कजं जइ तेहिं सबसाहम्मं । एवं च कतो तित्थं! न चेदचेलोत्ति को गाहो !॥२॥"(वि. २५८६-७) देशपक्षस्त्वस्माभिरभ्युपगत एव, येषानुकारस्य लोचकरणमात्रेण चरितानुकारस्यैषणीयाहारपरिभोगानियतवासादिना (च) क्रियमाणत्वात् , यदप्युक्तम्-'वस्त्रं च ग्रन्थ' इत्यादि, तदपि न सुन्दरं, संयमोपकारितया बखे धर्मोपकरणत्वेन ग्रन्धत्वायोगात्, तथाहि-यद्धर्मोपकरणं न स ग्रन्धा, धर्मोपकरणं च वस-16 मिति व्यापकविरुद्धव्याप्तोपलब्धिः, ग्रंथत्वं हि बन्धुहेतुत्वेन व्याप्तं, प्रश्नाति जीवं कर्ममलेनेति ग्रन्थ इति व्युत्पत्तेः, कर्मबन्धहेतुताप्रतिपक्षभूतेन च कर्मामलापगमहेतुत्वेन व्याप्तं धर्मोपकरणत्वं, तथाहि-धर्मः सम्यग्दर्शनज्ञानचारित्ररूपः, स उपक्रियते-उपष्टभ्यते स्फीति नीयते इतियावद् अनेनेति धर्मोपकरणं, यच्च सम्यग्दर्शनादिकं धर्ममुपष्टनाति तत् परंद्वापरया कर्मामलापगम हेतुः, सम्यग्दर्शनादिप्रभावतः सकलकर्मापगमलक्षणस्य मोक्षस्याभ्युपगमात्, बसमपि च शुभध्या-1 दीप अनुक्रम %A4 ~272
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy