________________
आगम
(४०)
[भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं H, नियुक्ति: [७८२-७८३], वि०भा०गाथा [२५९४-२५९७], भाष्यं [१४५], मूलं [- /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
न्यायस्योभयत्रापि तुल्यत्वात् , न, सूत्रान्तरेण स्त्रीपरिभोगस्य सर्वस्यापि प्रतिषेधनातू, तच सूत्रान्तरमिदम्,-"नवि |किंचिप्पडिसिद्धं नऽणुमायं वावि जिणवरिंदेहिं । मोर्चे मेहुणभावं न विणा सो रागदोसेहिं ॥१॥" (धर्म. १०६४)
ततो नातिप्रसङ्गदोषः, उक्तं च-"सिय पावई अणिटुं एवं इत्थीपरीसहपसंगा । नो मुत्तंतरवाहानिवारणादिह पसं|गस्स ॥१॥" (धर्म. १०६३) न च भगवता प्रतिक्रुष्टं वस्त्रम् , उपचिप्रमाणस्य कल्पाध्ययनादिषु साक्षादभिधानात्, न च यतयो गृहस्था इव वस्त्राणि परिभुञ्जते, किन्तु लोकरूढप्रकारादन्यप्रकारेण, कच्छाबन्धाभावात् कूपराभ्यामन
भाव एव चोलपट्टकधरणात् मस्तकोपरि प्रावरणाद्यभावाच्च, ततो न गृहिलिङ्गम् , अथ गृहस्थैरपि परिभोगात् गृहिलिङ्ग, दायद्येवं ततः करचरणादयोऽपि गृहिलिङ्गं तेषामपि गृहस्थेषु भावात् , ततस्तेषामपि परित्यागः कर्त्तव्यः, अथ करचरणा-15
दिपरित्यागे देहाभायस्तदभाये च परलोकासाधनमिति तदपरित्यागः, ननु वस्त्रस्याप्यभावे तृणग्रहणादिप्रसक्तः परलो-15
कसाधनाभावः समान एवेति यत्किञ्चिदेतत् ,आह च-"गिहिलिंगपिन एतं एगतेणं तदन्नहाधरणे । होति य कहिंचि हानियमा करचरणाईवि गिहिलिंगं ॥१॥ तेसि परिच्चागातो देहाभाचे कहं नु परलोगो । नणु बत्थस्सवि चाए तणग
हणाईहिं तुल्लमिणं ॥२॥" (धर्म. १०६८-६) अथास्माकं युष्माकं चाहन्तो गुरवः, भगवन्तश्चान्तोऽचेलास्ततोऽचेलत्व| मेवास्नाकं युक्त्युपपन्नं, न वस्त्रपरिधारण, शिष्याणां गुरुलिङ्गमतिपत्तेरर्चितत्वात् , उकंच-"जारिसयं गुरुलिंग सीसेणवि ४ तारिसेण होयषं । नहु होइ बुद्धसीसो सेयवडो नग्गखमणो वा ॥१॥" (धर्म. ११०९) ननु यदि भगवन्तो गुरवः प्रमाण है। तहि तदुपदेशः कर्तव्यः, भगवदुपदेशश्चाय-निरुपमधृतिसंहननाचतिशयोपेतेनाचेलेन भवितव्यं, न निरतिशयेन,
दीप
अनुक्रम
~270