SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम H [भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३ अध्ययनं [−], निर्युक्तिः [७५८ ], वि० भा० गाथा [ २२४१,२२४२], भाष्यं [१३७...], मूलं [-/गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः श्री आवश्यक मल य० वृत्ती उपोद्घाते ॥३८०॥ सर्वत्रापि, स च धर्मास्तिकायम देशादिः सामान्यविवक्षया एको विशेषविवक्षया त्वनेक इति, एवं वदन्तं नैगमं सङ्ग्रहो वदति यद् ग्रूपे-पण्णां प्रदेश इत्यादि, तन्न भवति यस्मात् यः स्कन्धगतैकदेशप्रदेशः स तस्यैव स्कन्धस्य प्रदेशः, देशस्कन्धाव्यतिरिक्तत्वात् तथा च ठोकेऽपि वकारो- दासेन मे खरः क्रीतो दासोऽपि मे खरोऽपि मे, एवं य, स्कन्धस्य सम्बन्धिनो देशस्य प्रदेशः स तस्यैव स्कन्धस्य, ततो मैवं वादीः यदुत - षण्णां प्रदेश इत्यादि, किन्त्वेवं वदः यथा- पञ्चानां प्रदेशः, धर्मास्तिकाय प्रदेशः अधर्मास्तिकाय प्रदेशः आकाशास्तिकाय प्रदेशो जीवप्रदेशः स्कन्धप्रदेश इति, | अत्र च धर्मास्तिकायाद्यनुगतः धर्मास्तिकायप्रदेशः स सर्वोऽप्येक एव द्रष्टव्यः, सामान्यविवक्षणात् एष च सोऽविशुद्धः प्रतिपत्तव्यः, अपर सामान्याभ्युपगमात्, एवमभिदधानं सङ्ग्रहं प्रति व्यवहारोऽभिधत्ते - यद्वदति भवान् पञ्चानां | प्रदेश इत्यादि, तदनुपपन्नं, कथमिति चेत्, उच्यते, शब्दार्थाघटनात्, तथाहि - यदि यथा पञ्चानां गोष्ठिकानां किञ्चित्साधारणं हिरण्यादि वर्त्तते तथा यदि पश्चानां धर्मास्तिकायादीनां साधारणः प्रदेशो भवेत् तत एवं वचनप्रवृत्तिरुपपद्यते पञ्चानां प्रदेश इति, नान्यथा, न चैतदस्ति, तस्मादेवं वक्तव्यं पञ्चविधः प्रदेशः, तद्यथा-धर्मास्तिकायप्र| देशो यावत् स्कन्धप्रदेश इति, एवमुक्ते व्यवहारेण ऋजुसूत्रो वदति यद्वापते भवान् पञ्चविधः प्रदेश इत्यादि, तदसम्यक् तत्रापि शब्दार्थे विचार्यमाणेऽतिप्रसङ्गदोषापत्तेः, तथाहि--पञ्चविधः प्रदेश इत्युक्ते शब्दार्थपर्यालोचनायां यो यः प्रदेशः स स पञ्चविध इति प्राप्तम् एवं च सत्येकैकः प्रदेशः पञ्चविध इति पञ्चविंशतिविधः प्रदेशः प्रसक्तः, न चैतदस्ति, तस्मादेवमत्र वक्तव्यं भाज्यः प्रदेशः, तद्यथा - स्याद्धर्मास्ति कायप्रदेशः स्यादधर्मास्तिका प्रदेशः स्यादाकाशा For Pivato & Personal Use Only 183 नयविचारे प्रदेश दृष्टान्तः ॥३८०॥
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy