________________
आगम
(४०)
[भाग-5] "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं [-1, नियुक्ति: [७५८], वि०भागाथा [२२४१,२२४२], भाष्यं [१३७...], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
RECR
प्रत सूत्रांक
संस्तारके वसनक्रियोपेतः स सर्वोऽप्येक् एव, एकबुद्धिग्राह्यत्वात्, ऋजुसूत्रनयमतेन तु येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव ४ वसति, न संस्तारके, संस्तारकानुगताकाशंप्रदेशानां तदणुभिरेव व्याप्तत्वात् , एवं ऋजुसूत्रेणोक्के त्रिविधोऽपि शब्दनया है प्राह-ननु बसनं नाम वर्त्तनमुच्यते, तथा च देवदत्तो गृहे वसतीति, किमुक्कं भवति ?-देवदत्तो गृहे वर्त्तते, तच्च
वत्तेनं सर्वस्यापि वस्तुनः स्वस्वरूप एव, नान्यत्र, तथा प्रत्यक्षत उपलभ्यमानत्वात्, तथाहि-यत् घटगतं स्वरूपं तत्
घट एव वर्तते, नान्यत्र भूतले पटादो वेति प्रसिद्धमेतत्, तत् देवदत्तादिलक्षणं वस्तु स्वस्वरूपमपहाय कथमन्यत्र *विलक्षणस्वरूपे वस्तुनि आकाशलक्षणे वर्तितुमुत्सहते ?, तथा चात्र प्रयोगः-यद्वस्तुसत् तत्सर्वमात्मस्वरूपे वर्त्तते, यथा ४
चेतना जीवे, वस्तुसच्च देवदत्तादिकमिति तदपि स्वस्वरूप एव वर्चते, नान्यत्रेति, अथवाऽयं व्यतिरेकमुखेन प्रयोगः| विवादास्पदीभूतो देवदत्तो नाकाशप्रदेशेववतिष्ठते, ततो विलक्षणत्वात् , यत् यतो विलक्षणं न तत्तत्र वर्तते, यथा छाया आतपे, विलक्षणाश्चाचेतनत्वेन देवदत्तादाकाशप्रदेशा इति नासौ (तत्र) वर्त्तते, उक्तं च-"आगासे वसइत्ति य भणिए
भण्णइ किहऽनमन्नंमि । मोत्तूणायसभावं वसिज्ज वत्थु विहम्मंमि! ॥१॥ वत्थु वसइ सहावे सत्ताओ चेयणा व जी-| दामि । न बिलक्खणसणाओ भिन्ने छायाऽऽतचे चेव ॥२॥"(दि. २२४१-२) एष वसतिदृष्टान्तः। * सम्प्रति प्रदेशदृष्टान्तभावना, तत्र प्रकृष्टो देशः प्रदेशः स एव दृष्टान्तः प्रदेशदृष्टान्तः, स चायम्-नैगमो वदति
पण्णां जगति प्रदेशाः, तद्यथा-धर्मास्तिकायप्रदेशोऽधर्मास्तिकायप्रदेश आकाशास्तिकायप्रदेशो जीवप्रदेशः स्कन्धप्रदेशः स्कन्धगतैकदेशप्रदेशश्च, सर्वत्र च षष्ठीतत्पुरुषः समासः, यथा धर्मास्तिकायस्य प्रदेशो धर्मास्तिकायप्रदेशः, एवं
दीप
SACRE
अनुक्रम
JanEtacncionematiana
~182