________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
[भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३
अध्ययनं [–], निर्युक्तिः [७५८ ], वि० भा० गाथा [ २२४१, २२४२], भाष्यं [१३७...], मूलं [- /गाथा - ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः
|स्तिकायप्रदेशः स्याज्जीवप्रदेशः स्यात् स्कन्धप्रदेशः, एवमाचक्षाणमृजुसूत्रं शब्दनयः प्रत्याचष्टे - यद्वदुसि - भाज्यः प्रदेश इत्यादि, तन्न भवति, कथम् ?, उच्यते यदि भाज्यः प्रदेश इति संमतं ततः स्यात्पदलाञ्छने प्रतिनियतधर्मास्तिकायाधनुगत प्रदेशस्वरूपावधारणासम्भवात् धर्मास्तिकायप्रदेशोऽपि स्यादधर्मास्ति काय प्रदेशः अधम्र्मास्तिकायम देशोऽपि | स्याद्धर्मास्तिकाय प्रदेश इत्यादि, तत एवं वक्तव्यं-धर्मास्तिकायः प्रदेशः प्रदेशो धर्मास्तिकायः अधर्मास्तिकायः प्रदेशः | प्रदेशोऽधर्मास्तिकाय इत्यादि, एवं हि वदतः शब्दनयस्यायमभिप्रायः य एव धर्मास्तिकायादिरूपो देशी स एव देशः प्रदेशो वा, तस्य तदव्यतिरिक्तत्वात्, न खलु देशिनो भिन्नो देशः प्रदेशो वा भवितुमर्हति, भेदे सति तस्यासौ देशः प्रदेशो वेति सम्बन्धानुपपत्तेः, नहि घटः पटस्येति सचेतसा वकुं शक्यं, सम्बन्धश्चेत्तर्हि सम्बन्धस्यान्यथानुपपद्यमानत्वादेशः प्रदेशो वा देशिनः सकाशादभिन्नः प्रतिपत्तव्यः, तथा च सति य एव देशी स एव देशः प्रदेशश्चेति सिद्धं सामानाधिकरण्यं एतदेव च सामानाधिकरण्यं समभिरूढोऽपि मन्यते, एवंभूतस्तु ग्राह-न वस्तुनो देशः प्रदेशो वा युक्त्ययोगात्, तथाहि देशः प्रदेशो वा देशिनो भिन्नो वाऽभिन्नोवा ?, गत्यन्तराभावात्, यदि भेदस्तस्येति सम्बन्धानुपपत्तिः, अथाभेदस्ततो देशः प्रदेशो वा देश्येव, तदव्यतिरिक्तत्वात्, तत्स्वरूपवत्, तथा च सति यो देश प्रदेशशब्दौ तौ परमार्थतो धर्मास्तिकायादिदेशप्रतिपादकों, ततो यथा पर्यायशब्दत्वादेककालमेकस्मिन् वस्तुनि घटकुटशब्दौ नोच्चायेंते, एकेनापि शब्देन तदर्थस्य प्रतिपादने द्वितीयशब्दप्रयोगस्य नैरर्थक्यात्, एवमिहापि धर्मास्तिकायादिरूपे वस्तुनि धर्मास्तिकायादिशब्दो देश प्रदेशादिशब्दश्च नैककालं उच्चारणमर्हतः, द्वयोरप्येकार्थतायामेकेन तदर्थस्याभिधान तोऽपरशब्दप्रयोगस्य वैयर्थ्यात्, तथा च
For Pevato & Personal Use Only
184~