SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं -], नियुक्ति: [७५८], विभा गाथा [२२५६], भाष्यं [१३७...], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक व्युत्पत्तिनिमित्तासम्भवात् , सिद्धस्त्वात्मादिशब्दवाच्यः, अतति-सातत्येन गच्छति तांस्तान ज्ञानदर्शनसुलादिपर्याया-1 नित्याद्यात्मादिशब्दव्युत्पत्तिनिमित्तसम्भवात्, उक्तं च-"एवं जीवं जीवो संसारी पाणधारणाणुगो । सिद्धो पुण-10 रज्जीवो जीवणपरिणामरहिओत्ति ॥१॥" (वि. २२५६) एवम्भूतशब्दव्युत्पत्तिश्चैवम्-एवंशब्दः प्रकारवचना, एवं यथा व्युत्पादितस्तं प्रकारं भूत:-प्राप्ठः एवंभूतः-शब्दस्तत्समर्थनप्रधानो नयोऽप्येवंभूतः उपचारात्, एवंभूतशब्दसमर्थना चास्य प्रागेवोपदर्शिता, यथा यस्मिन्नर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदेव स्वरूपतो वर्त्तते तदैव तं शब्द प्रवर्त्तमानममिति, न शेषकालं, यथोदकाचाहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावान् घटो घटशब्दवाच्यो, न शेषो, घटशब्दप्रवृत्तिनिमित्तशून्यत्वात् , पटादिवत् , तथा घटशब्दोऽपि तत्वतः स एव द्रष्टव्यो यश्चेष्टावन्तमर्थे प्रतिपा-IA ४ादयति, न शेषः, शेषस्य स्वाभिधेयार्थशून्यत्वादिति ॥अमीषां च नैगमादिनयानामनुयोगद्वारेषु प्रस्थकदृष्टान्तेन वसतिदृष्टा-1 न्तेन च मावना कृता, सा चोपयोगिनीति विनेयजनानुग्रहाय लेशतो वक्ष्यते, तत्रेयं प्रस्थकदृष्टान्तभावना-कोऽपि पुरुषः परशुमादाय वनं प्रति प्रचलितः, तं परशुसहायं गच्छन्तमवलोक्य अन्यः पृच्छति-क भवान् गच्छति !, स नैगमन-IN यामिप्रायेण प्राह-प्रस्थकस्यानयनाय गच्छामि, तदभिप्रायेण हि यत् प्रस्थकनिमित्तं काळं तदपि कारणे कार्योपचारात् प्रस्थक इति व्यवहियते, तथा लोकव्यवहारदानाद्, एवमुत्तरत्रापि यथायोगमुपचारभावना भावनीया, ततः कोऽपितं पुरुष।। वृक्ष छिन्दानमुपलभ्य पृष्टवान-किं भवान् छिनत्ति !,स प्राह-प्रस्थक छिनद्मि, मार्गे चागच्छन् केनापि पृष्टो यथा-किमिदं त्वया स्कन्धे समारोपितमिति !, स पाह-प्रस्थकं, एवं वास्या वा काष्ठं तक्षन उत्किरन् श्लक्ष्णीकुर्वन् पृष्टः सम्मेवमेव दीप अनुक्रम ~178~
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy