________________
आगम
(४०)
[भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं -], नियुक्ति: [७५७], विभा गाथा [२२३७], भाष्यं [१३७...], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
कु:-पृथिवी तस्यां स्थितस्य भनात्-पूरणात् कुम्भः, अत्र यत् पृथिव्यां स्थितस्य पूरणं तत्कुम्भशब्दवाच्यम्, एवं सर्वेषामपि पर्यायशब्दानां नानात्वं प्रतिपद्यते, वदति च-न शब्दान्तराभिधेवं वस्तु द्रव्यं पयायो वा तदन्यशब्दवाच्यवस्तुशब्दरूपता सङ्कामति, न खलु पटशब्दवाच्योऽर्थों जातुचिदपि घटशब्दवाच्यवस्तुरूपतामास्कन्दति, तथाऽनुपलम्भात्, आस्क-18 न्दने वा वस्तुसाङ्कर्यापतिः, तथा च सति सकललोकमसिद्धप्रतिनियतविषयप्रवृत्तिनिवृत्त्यादिव्यवहारोच्छेदमसङ्गः, उक्त च-"दषं पजाओ वा वत्थु वयणंतराभिधेयं जान य तं तदन्नभावं संकमए संकरो मा भू ॥१॥" (२२३७) ततो घटादिशब्दवाच्यानामर्थानां कुटादिशब्दवाच्यार्थरूपताऽनास्कन्दनात् न कुटादयः शब्दा घटाद्यर्थवाचका इति विभि-17 नार्थाः पर्यायशब्दा, प्रमाणयति च-इह ये ये प्रविभक्तव्युत्पत्तिनिमित्तकाः शब्दास्ते ते भिन्नार्थाः, यथा घटपटशकटादिशब्दाः, भिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा इति, यत्पुनरविचारितप्रतीतिबलादेकार्थाभिधायकत्वं पर्यायशब्दाना-18 मभिधीयते तदसमीचीनमतिप्रसङ्गात्, तथाहि-यदि युतिरिक्ताऽपि प्रतीतिः शरणीक्रियते तहिं मन्दमन्दप्रकाशदवीयसि देशे सन्निविष्टमूर्चयो विभिन्ना अपि निम्बकदम्बाश्वत्थकपित्यादय एकताकारत्वमाविधाणाः प्रतीतिपथमनुयन्तीत्येकतयैव तेऽभ्युपगन्तव्याः, न चैतदस्ति, विविक्ततत्स्वरूपमाहितत्प्रत्यनीकप्रत्ययोपनिपातवाधितत्वेन पूर्वप्रतीतेविविकानामेव तेषामभ्युपगमात्, एवमत्रापि भावनीयम् , अन्यच्च-शब्दनय ! यदि त्वया परस्परमर्थतो भिन्नत्वालिङ्गवचनभिनानां शब्दानां भिन्नार्थता व्यवयिते ततः पर्यायशब्दानामपि किं न भिन्नार्थतान्यवहारः क्रियते !, तेषामपि परस्परमर्षतो भिनत्वात्, माह च भाष्यकृत-"धणिभेयातो भेओष्णुमओ जइ लिंगवयणभिशाणं । घडपडवखाणंपि
दीप
अनुक्रम
~1764