________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
[भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३
अध्ययनं [-], निर्युक्तिः [७५७ ], वि० भा०गाथा [ २२२९], भाष्यं [ १३७...], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीआव
श्यक मल
य० वृत्तौ
उपोद्घाते
॥३७६॥
चनास्तेषामभिन्नोऽर्थं इत्येकार्यता, उक्तं च- "घणि भेयातो भेओ श्रीपुंलिंगाभिहाणवञ्चाणं । पडकुंभाण व जुत्तो तेणाभिन्नत्यमि तं ॥१॥ (वि. २२३४) अत्र 'घणिभेयाउ'त्ति ध्वनिभेदात् अननुयाय्यर्थतया, अर्थतः शब्दरूपस्याभेदात्, 'तेणाभिन्न| त्यमिद्धं तं'ति तेन तस्मात्कारणात् तत् लिङ्गं वचनं वा अभिन्नार्थमिष्टं, यादृशमर्थे लिङ्गे तादृशमेव तद्वाचकस्य शब्दस्पेष्टं नान्यादृशम्, अत एव चाभिन्नवचनाः पर्यायशब्दा एकार्थास्तेषामर्थभेदाभावात्, तथा च शब्दनयमतं सर्वमपि सङ्गृ हता प्रव्यपादि भाष्यकृता - "तो भावो श्चिय वत्थं विसेसियमभिन्नलिंगवयणं च । बहुपज्जायंपि मयं सद्दत्यवसेण सद्दस्स ॥ १॥" | (वि. २२३५) अस्या गाथाया लेशतो व्याख्या- तत इत्युपसंहारे, ततः शब्दनयस्य शब्दार्थवशेन- शब्दगतान्वर्धशब्दार्थस| माश्रयेण भाव एव वस्तु मतं, न नामादिकं तदपि च भावरूपं वस्तु विशेषितं स्वपर्यायविशेषितं परपर्यायविशेषितं च मतं, तथा अभिन्नलिङ्गवचनं बहुपर्यायमपि मतमिति ॥ उक्तः शब्दनयः, सम्प्रति समभिरूढमाह
वत्थूओ संकमणं होइ अवत्थू नये समभिरूढे ।
वस्तुनो- घटाख्यादिकस्य सङ्क्रमणम्-अन्यत्र कुटाख्यादौ गमनं, किं १, भवति अवस्तु, असदित्यर्थः, नये पर्यालोच्यमाने, कस्मिक्षये इत्याह- 'समभिरूढे' सम्- एकीभावेन अभिरोहति व्युत्पत्तिनिमित्तमास्कन्दति शब्दप्रवृत्तौ यः स समभिरूढः तस्मिन् एष हि पर्यायशब्दानामपि प्रविभक्तमेवार्थमभिमन्यते, यथा घटनात् घटः, विशिष्टा काचनापि या चेष्टा युवतिमस्तकाद्यारोहादिलक्षणा स परमार्थतो घटशब्दवाच्या तद्वत्यर्थे पुनर्घटशब्दः प्रवर्त्तते उपचारात्, एवं 'कुट कौटिल्ये' कुटनात् कुदः, अत्र पृथुवुभोदरकम्बुग्रीवाद्याकार कौटिल्यं कुटशब्दवाच्यं तथा 'उभ ढंभ पूरणे
For Foto & Personal Use Only
175
शब्दसमभिरूढौ
॥१७६॥