________________
आगम
(४०)
[भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं -], नियुक्ति: [७५७], विभा गाथा [२२२९], भाष्यं [१३७...], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
ऋजुसूत्रनय इव साम्प्रतमेव यस्त्वभ्युपगच्छति, नाप्यतीतमनागतं वा, नापि वर्तमानमपि परकीयम् , अपिच-निक्षे-- पचिन्तायां भावनिक्षेपमेव केवलमेष मन्यते, न नामादीन निक्षेपान , तथा च नामादिनिक्षेपनिराकरणार्थ प्रमाणमाह-16 नामस्थापनाद्रव्यरूपा घटा न घटाः, घटकार्यकारित्वाभावात् , यत् यत् घटकार्यकारि न भवति तत् न घटो, यथा पटः, तथा चामी घटा घटकार्यकारिणो न भवन्ति तस्मान्न घटा इति नामादिघटानां घटत्वाभावः, इतश्च घटत्वाभावः, तल्लिङ्गादर्शनात्, न खलु नामादिघटेषु घटलिई पृथुबुनोदराद्याकाररूपं जलधारणरूपं वा किमप्युपलभामहे, अनुपलभमानाच|| तेषु कथं घटव्यपदेशप्रवृत्तिमिच्छामः १, अपिच-नामादीन घटान् घटस्वेन व्यपदिशत ऋजुसूत्रस्य प्रत्यक्षविरोधा, अघ-1HI टस्वरूपतया पटादीनामिव तेषां प्रत्यक्षत उपटभ्यमानत्वात्, उक्तं च-"नामादयो न कुंभातकज्जाकरणतो पडाइब । पञ्च-10
खबिरोहातो तल्लिंगाभावतो यायि ॥२॥” (वि. २२२९) अन्यच्च-एप लिङ्गवचनभेदाद्वस्तुनो भेदः प्रतिपद्यते, यथाऽन्य एव तटीशब्दवाच्योऽर्थः अन्य एव तटशब्दस्य पुल्लिङ्गस्य, तथाऽन्य एव गुरुरित्येकवचनवाच्योऽर्थः अन्य एवं गुरव
इति वहुवचनवाच्यः, ततो न बहुवचनवाच्योऽर्थ एकवचनेन वक्तुं शक्यते, नाप्येकवचनवाच्यो बहुवचनेन, तथा न हापुंलिङ्गोऽर्थो नपुंसकलिङ्गेन वक्तुं शक्यो नापि स्त्रीलिङ्गेन वक्तुं शक्यः, नापि नपुंसकलिङ्गः पुंलिङ्गेन स्त्रीलिजेन वा,
नापि स्त्रीलिङ्गः पुहिङ्गेन नपुंसकलिङ्गेन वा, अर्थाननुयायितया तेषामर्धतो भिन्नत्वात् , तथा चात्र प्रयोगः-ये परस्पर
मर्थतोऽननुयायिनस्ते भिन्नार्था इति व्यवहर्तव्याः, यथा घटपटादिशब्दाः, परस्परमर्थतोऽननुयायिनश्च लिङ्गवचनभेहादभिन्नाः शब्दा इति, ये विन्द्रशक्रपुरन्दरादयः शब्दाः सुराधिपादिलक्षणमेकमभिन्नलिङ्गवचनमधिकृत्याभिन्नलिङ्गया।
दीप
अनुक्रम
-
-
-
~174